सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ३१ – द्वितीयाक्षेपस्य समाधानम् – यत्प्रतिबन्धकं न निवृत्तं तन्निवृत्तये

आवर्तः ३१ – द्वितीयाक्षेपस्य समाधानम् – यत्प्रतिबन्धकं न निवृत्तं तन्निवृत्तये

द्वितीयाक्षेपस्य समाधानम् – यत्तूक्तं महावाक्येनापरोक्षज्ञानोत्पत्त्यङ्गीकारे ऽपरोक्षज्ञानोत्पत्त्यधिकरणे ऽसंभावनाद्यनुत्पत्तेः श्रवणादीनां वैयर्थ्यं स्यादिति, तदसत्।

भर्च्छोः कथा (संक्षेपेण)

कश्चन राजा स्वामात्यं२ भर्च्छुनामकं चक्षुषा पश्यन्नपि विपरीतभावनया यथा न विवेद तं, तथा महावाक्येन ब्रह्मापरोक्षज्ञानोत्पत्तावपि यस्यान्तःकरणे असंभावनादिदोषाः प्रतिबन्धका वर्तन्ते, तस्य सकलङ्कं ज्ञानं नैव फलाय कल्पते। अतः प्रतिबन्धकीभूतदोषनिवृत्त्यर्थं तेन श्रवणादिकमवश्यमावर्तनीयम्। यस्य तु पुनर्बुद्धौ महाभाग्यवशात् रागद्वेषादिकारणीभूतासंभावनादिदोषा नैव विद्यन्ते, तस्य श्रवणादिवैयर्थ्यमिष्टमेव।

एवञ्च ज्ञानस्य साक्षात्कारणं महावाक्यमेव, न श्रवणादि। श्रवणादि तु ज्ञानप्रतिबन्धकीभूतासंभावनादिदोषापनयनमात्रं कुर्यात्। तावन्मात्रेण श्रवणाद्यपि ज्ञानसाधनमिति गौण्या वृत्त्योच्यते। तथा विवेकादिचतुष्टयमपि श्रवणाद्युपकारकतया ज्ञानसाधनमित्येवोच्यते। तथा च विवेकादिसाधनचतुष्टयसंपन्न एव अधिकारीति सिद्धम्३।

ग्रन्थकारटिप्पणी

२. इयं कथा पञ्चमतरङ्गे विव्रियते।

३. अयं पुरुषो वेदान्तग्रन्थे, तद्विचारद्वारा आत्मज्ञाने, आत्मज्ञानद्वारा मोक्षे चाधिक्रियते।