विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ३० – प्रथमाक्षेपस्य समाधानम् – शब्दः परोक्षमेव ज्ञानमुत्पादयेत्,
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः ३० – प्रथमाक्षेपस्य समाधानम् – शब्दः परोक्षमेव ज्ञानमुत्पादयेत्,¶
प्रथमाक्षेपस्य समाधानम्२ – यदुक्तं शब्दसामान्यं परोक्षमेव ज्ञानं जनयेदिति, नैतत्साधु।
यतोऽयमेव स्वभावः शब्दस्य यत् परोक्षापरोक्षरूपद्विविधज्ञानजनकत्वमिति।
ग्रन्थकारटिप्पणी
२. इदं शारीरकमीमांसायास्तात्पर्यम्।
देशकालपरिच्छिन्नं३ (आवृतं) वस्तु व्यवहितं इत्युच्यते।
तदनवच्छिन्नं (तदनावृतं) अव्यवहितं इति च।
व्यवहितविषयकं शाब्दं ज्ञानं परोक्षमेव, न कदाचित् कथञ्चिदप्यपरोक्षं भवति;
स्वर्गेन्द्रदेवतादीनां व्यवहितानां ज्ञानस्य शास्त्ररूपशब्दप्रमाणेन जायमानस्य नित्यं परोक्षत्वात्।
अव्यवहितवस्तुविषयकं शाब्दं ज्ञानं परोक्षमपरोक्षं च भवति।
ग्रन्थकारटिप्पणी
३. दूरदेशे स्थितं वस्तु देशतो व्यवहितम्। भूतभविष्यद्वस्तु कालतो व्यवहितं इत्युच्यते।
यदा अव्यवहितवस्तुविषयकं ज्ञानं 'अस्ति' इति शब्देन जायते तदा अव्यवहितस्यापि वस्तुनो ज्ञानं परोक्षमेव भवति। यथा "दशमोऽस्ति" इत्यत्र "अस्ति" शब्देन जायमानमव्यवहितस्यापि दशमपुरुषस्य ज्ञानं परोक्षमेव भवति।
यदा अव्यवहितवस्तुविषयकं ज्ञानं "इदमस्ति" इत्यादिशब्दप्रमाणेन जायते तदा तज्ज्ञानमपरोक्षमेव भवति, न परोक्षम्।
यथा "दशमस्त्वमसि" इत्यत्र१ "त्वमसि" शब्देन जायमानं दशमपुरुषज्ञानमपरोक्षमेव भवति।
एवमेव प्रकृतस्य ब्रह्मणः सर्वप्राणिप्रत्यगात्मभूतत्वादत्यन्ताव्यवहितस्य नित्यापरोक्षरूपस्यापि ज्ञानं, "तदस्ति" इत्यवान्तरवाक्येन परोक्षमेव जायते।
महावाक्यं तु 'दशमस्त्वमसि' इतिवत् श्रोतुरात्मत्वेनापरोक्षतया ब्रह्म बोधयति।
अत एव महावाक्येनाव्यवहितप्रत्यग्ब्रह्मापरोक्षज्ञानमेव जायते, न तु परोक्षमिति।
ग्रन्थकारटिप्पणी
दशमपुरुषकथा¶
१. दशमपुरुषकथा – दश पथिकाः देशान्तरगमनसमये मध्येमार्गं काञ्चिन्नदीं गभीरां प्राप्य, एकैकशस्तीर्त्वा, परं पारमासाद्य, सर्वे वयमुत्तीर्णा न वेति सन्दिहानाः, तत्प्रत्ययार्थं प्रत्येकं स्वात्मानं विहाय गणयन्तः 'नवैव वयं स्मः, एको नद्यां ममार' इति रुरुदुः।
तदा कश्चन पान्थः तेषां परिदेवनं श्रुत्वा, बुद्ध्वा च दुःखनिदानं, कृपया प्रथमतो 'दशमोऽस्ति' इत्यवोचत्। तदा तेषां परोक्षमेव ज्ञानं दशमविषयमभूत्। तेष्वेकः 'कुत्रास्ते दशमः' इत्यपृच्छत्। सोऽब्रवीत् "स दशमः त्वमसि" इति। तदैव तस्य स्वविषयकदशमत्वज्ञानमपरोक्षमेवाजायत।
तथा चापरोक्ष्ये सत्यपि दशमस्य, करणे च चक्षुषि सति, 'दशमस्त्वमसि' इति परोपदेशमन्तरा स्वविषयकं ज्ञानं परोक्षकल्पमेवासीत्। यथैवात्र 'त्वमेवासि दशमः' इत्याप्तोपदिष्टवाक्यमपरोक्षज्ञाने साक्षात् स्वयं करणं, एवमेव प्रत्यग्ब्रह्मापरोक्षज्ञानेऽपि गुरूपदिष्टमहावाक्यमपि साक्षादेव करणं भवति। तस्य च संशयादिदोषप्रतिबन्धकशून्यशुद्धान्तःकरणं सहकारिसाधनम्। (चतुर्थतरङ्गे अस्य विस्तरः)