विचारसागरः — प्रथमस्तरङ्गः — आवर्तः २९ – आक्षेपः – वाक्यादेवापरोक्षज्ञाने सति श्रवणादि व्यर्थं भवेत्
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः २९ – आक्षेपः – वाक्यादेवापरोक्षज्ञाने सति श्रवणादि व्यर्थं भवेत्¶
अत्र केचिदाक्षिपन्ति१ –
ग्रन्थकारटिप्पणी
१. पञ्चदशप्रकरणादिकृद्विद्यारण्यप्रभृतयः।
(1) श्रवणादीनि महावाक्यानि च समुच्चित्यैवापरोक्षज्ञानं जनयन्ति। केवलानि तु वाक्यानि परोक्षमेव ज्ञानं जनयेयुः, नापरोक्षम्।
(2) केवलवाक्यान्येव यद्यपरोक्षज्ञानं जनयेयुस्तर्हि व्यर्थानि स्युः श्रवणमनननिदिध्यासनानीति।
न च "केवलमहावाक्यादपरोक्षमेव ज्ञानं जायते, श्रवणादीनां त्वसंभावनाविपरीतभावनानिवृत्तावुपयुक्तत्वान्न व्यर्थते"ति वाच्यम्।
अपरोक्षज्ञानविषये वस्तुनि कस्याप्यसंभावनाविपरीतभावनानुदयात्, केवलादपि महावाक्यादपरोक्षमेव ज्ञानं जायत इति वदतां मते, तत्त्वमस्यादिमहावाक्यैर्ब्रह्मापरोक्षज्ञानोत्पत्त्यनन्तरं असंभावनाविपरीतभावनानुत्पत्तेः श्रवणादिसाधनानां व्यर्थतैव स्यात्।
अस्मन्मते तु (पूर्वपक्षिमते) केवलवाक्येन परोक्षमेव ज्ञानं प्रथमं जायते। श्रवणादिसहकृतेन वाक्येन तु पश्चादपरोक्षमित्यङ्गीकारान्न श्रवणादिवैयर्थ्यम्। इत्यनेकग्रन्थकृत्तात्पर्यमिति।