विचारसागरः — प्रथमस्तरङ्गः — आवर्तः २८ – अपरोक्षसाक्षात्साधनम्
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः २८ – अपरोक्षसाक्षात्साधनम्¶
ज्ञानस्य साक्षात्साधनं४ तु श्रोत्रेन्द्रियसंबद्धवेदान्तवाक्यमेव।
ग्रन्थकारटिप्पणी
४. नेत्राञ्जनं नेत्ररोगनिवृत्तिद्वारा सूर्यावलोकने उपकरोति नेत्रस्य। नेत्रमेव तु सूर्यं साक्षाद्यथा पश्यति, तथा श्रवणादीन्यपि ज्ञानप्रतिबन्धकीभूतसंशयविपर्ययरूप(दोष)रोगनिवृत्तिद्वारा ब्रह्मज्ञानसाधनानि भवन्ति। साक्षाज्ज्ञानसाधनं तु श्रोत्रसंबद्धमहावाक्यमेव।
तच्च द्विप्रकारम्। अवान्तरवाक्यं महावाक्यं चेति। जीवात्मपरमात्मस्वरूपप्रतिपादकवाक्यं अवान्तरवाक्यम्। तदैक्यप्रतिपादकवाक्यं महावाक्यं इति चोच्यते। अवान्तरवाक्येन परोक्षमेव ज्ञानं जायते। महावाक्येन त्वपरोक्षमेव।
'अस्ति ब्रह्म' इति ज्ञानं परोक्षम्। 'अहमेव ब्रह्म' इति ज्ञानं अपरोक्षम्। "त्वमेव ब्रह्मासि" इति गुरूपदिष्टमहावाक्यश्रवणानन्तरं श्रोतुः शिष्यस्य पुष्कलसाधनसंपन्नस्य "अहं ब्रह्मास्मि" इत्यपरोक्षमेव ज्ञानं जायते। श्रोत्रेणासंबद्धं वाक्यं नैव ज्ञानं जनयेत्। अतः श्रोत्रेन्द्रियसंबद्धमहावाक्यमेवापरोक्षज्ञानहेतुः। महावाक्येन सर्वेषां ज्ञानमपरोक्षमेव जायते, न तु परोक्षमिति नियमः।