विचारसागरः — प्रथमस्तरङ्गः — आवर्तः २७ – श्रवणादिप्रयोजननिरूपणम्
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः २७ – श्रवणादिप्रयोजननिरूपणम्¶
श्रवणादिप्रयोजननिरूपणम् – श्रवणादीनि यद्यपि न साक्षाज्ज्ञानसाधनानि, अप्रमाणत्वात्; तथापि तानि ज्ञानप्रतिबन्धकीभूतबुद्धिदोषासंभावनाविपरीतभावनादीन् नाशयन्ति। असंभावना = संशयः३। विपरीतभावना = विपर्ययः४।
ग्रन्थकारटिप्पणी
३. इयं रज्जुर्वा सर्पो वेति कोटिद्वयविषयकं ज्ञानं संशयः।
४. रज्जौ 'अयं सर्पः' इत्यविद्यावृत्तिर्विपर्ययः। अयमेव भ्रान्तिज्ञानं, विपरीतभावना, विपरीतज्ञानं, ज्ञानाध्यास इति चोच्यते। प्रकृते मिथ्याभूतेषु देहादिष्वनात्मसु सत्यत्वबुद्धिः आत्मत्वबुद्धिश्च विपर्ययः।
श्रवणस्योपयोगः – वेदान्तवाक्यं किमद्वितीयं ब्रह्म बोधयति, उत यत्किञ्चिदर्थान्तरमिति प्रमाणगतसन्देहः१ श्रवणेन निवर्त्यते।
ग्रन्थकारटिप्पणी
१. प्रमाणम् = उपनिषद्वाक्यानि शब्दप्रमाणम्।
मननस्योपयोगः – जीवब्रह्मणोरभेदः सत्यः उत भेद इति प्रमेयगतसन्देहः२। स चानेकप्रकारोऽपि मननेन निवार्यते।
ग्रन्थकारटिप्पणी
२. प्रमेयः = मोक्षादिज्ञेयविषयः।
निदिध्यासनस्योपयोगः – 'देहादिदृश्यप्रपञ्चः सर्वोऽपि सत्यः, जीवब्रह्मणोर्भेदश्च सत्यः' इति धीर्विपरीतभावना।
सा च निदिध्यासनेन३ निवार्यते।
ग्रन्थकारटिप्पणी
३. एवं संशयद्वये निवृत्तेऽपि साक्षात्कारात् पूर्वमविद्यायाः सत्त्वात् "अहं ब्रह्म न भवामि, जीव एवाहं; मत्तो भिन्नमेव ब्रह्म; देहादिजगत् सत्यम्" इत्येवंविधानेकसंशयाः [विपर्ययाः] पुनःपुनर्जायेरन्। तन्निवृत्तये सदा निदिध्यासितव्यमेव।
एवं श्रवणादित्रयं ज्ञानप्रतिबन्धकीभूतासंभावनाविपरीतभावनानिवृत्तिद्वारा परम्परया अपरोक्षज्ञानसाधनं भवति। न तु साक्षात्।