सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः २६ – निदिध्यासनलक्षणम्

आवर्तः २६ – निदिध्यासनलक्षणम्

भेदप्रत्यय(अनात्मप्रत्यय)अनन्तरितब्रह्माकारप्रत्ययप्रवाह एव निदिध्यासनं१ उच्यते। निदिध्यासनपरिपाकावस्थैव समाधिः इति, निदिध्यासनेऽन्तर्भावान्न समाधिः२ पृथक्साधनत्वेन गण्यते।

ग्रन्थकारटिप्पणी

१. अयमेव भेदः साक्षात्कारनिदिध्यासनयोः –

स्वयमेव नम्रीभूतवृक्षशाखावत्, विनैव स्वप्रयत्नं, "अहं ब्रह्मास्मि" इति वेदान्तजन्या अनात्माकारवृत्तिरूपान्तरायरहिता ब्रह्माकारवृत्तिः साक्षात्कार उच्यते।

निदिध्यासनं तु स्वप्रयत्नादानमितवृक्षशाखावत्स्वप्रयत्नमात्रसाध्या ब्रह्माकारवृत्तिः। प्रयत्नोपरमे तु शाखाया उन्नमनवत्, निदिध्यासननिवृत्तौ निवर्तेतैव ब्रह्माकारवृत्तिरपि। इति।


२. अत्र समाधिशब्देन त्रिपुटीभानरहितनिर्विकल्पकसमाधिरभिधीयते। निदिध्यासनशब्देन ध्यातृध्यानध्येयात्मकत्रिपुटीयुक्तसविकल्पसमाधिरुच्यते। तथा चोक्तं पञ्चदश्याम् –

ताभ्यां निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत्।
एकतानत्वमेतद्धि निदिध्यासनमुच्यते॥ (तत्त्व० ५४)

ध्यातृध्याने परित्यज्य क्रमात् ध्येयैकगोचरम्।
निवातदीपवच्चित्तं समाधिरभिधीयते॥ (तत्त्व० ५५) इति।