सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः २५ – मननलक्षणम्

आवर्तः २५ – मननलक्षणम्

मननं नाम प्रत्यग्ब्रह्मैक्यसाधक-तद्भेदबाधकयुक्तिभिः१ सदाऽद्वितीयब्रह्मात्मैक्यानुसन्धानम्२।

ग्रन्थकारटिप्पणी

१. ऐक्यसाधकयुक्तयः

(१) अनुमानप्रमाणम् – यत् सच्चिदानन्दस्वरूपं, न तत् ब्रह्मणो भिद्यते। यत् सच्चिदानन्दस्वरूपं न भवति तत् ब्रह्मणो भिद्यते। यथेश्वरः सच्चिदानन्दस्वरूपत्वादेव ब्रह्मणो न भिद्यते, व्यावहारिको घटादिस्त्वनृतजडदुःखात्मकत्वेन सच्चिदानन्दस्वरूपत्वाभावाद्ब्रह्मणो भिद्यते। एवं जीवोऽपि ब्रह्मैव, सच्चिदानन्दस्वरूपत्वात् ईश्वरवत् इत्यनुमानम्।

(२) उपमानप्रमाणम् – यथा घटाकाशमठाकाशयोर्घटमठरूपोपाधी विना न स्वतो भेदोऽस्ति, तथा अन्तःकरण(बुद्धि)मायारूपोपाधी अन्तरा जीवब्रह्मणोरपि भेदो नैव सिद्ध्यति।

(३) अर्थापत्तिप्रमाणम् – "नेह नानास्ति किञ्चन" (बृ० ४।४।१९), (क० २।१।११), "न तु तत् द्वितीयमस्ति" (बृ० ४।३।२३), "अतोऽन्यदार्तम्" (बृ० ३।७।२३) इत्यादिश्रुत्युक्तभेदनिन्दान्यथानुपपत्त्या वस्तुतोऽभेदासिद्धौ श्रुतिवैयर्थ्यप्रसङ्गादवश्यमैक्यमभ्युपेयम्। यथा देवदत्तशरीरगतपीनत्वबुद्ध्या भोजनाभावबुद्धिर्बाध्यते, एवं भेदधीरपि "नेह नानास्ति" (बृ० ४।४।१९), (क० २।१।११), "नेति नेति" (बृ० २।३।६) इत्यादिश्रुतिभिर्बाध्यत एव। इदं च युक्तित्रयमभेदसाधकम्।

२. भेदबाधकयुक्तयः

(१) अनुमानप्रमाणम् – प्रत्यक्परचितोर्भेदो मिथ्या, उपाध्यधीनत्वात् घटाकाशमठाकाशयोः भेदवत्। यन्नैव तन्नैवं (यदौपाधिकं न भवति तन्मिथ्या न भवति), यथा व्यावहारिकघटपटादिभेदः औपाधिकत्वाभावादेव सत्यः (न मिथ्या) तद्वत्। अत एव यत्र यत्रोपाधिनिबन्धनो भेदस्तत्र तत्र मिथ्यैव सः।

(२) उपमानप्रमाणम् – यथा बिम्बप्रतिबिम्बयोर्भेदो मिथ्या तथा जीवब्रह्मणोरपि।

(३) अर्थापत्तिप्रमाणम् – महावाक्यैरुपनिषत्सु जीवब्रह्मणोरभेद एव निश्चितः। यदि प्रतीयमानोऽपि भेदो वस्तुतो न मिथ्या स्यात्तर्हि महावाक्यैरभेदो न प्रतिपाद्येत, प्रतिपाद्यते तु। तस्मादर्थापत्तिप्रमाणादपि जीवब्रह्मणोः भेदो मिथ्यैव।

(४) अनुपलब्धिप्रमाणमपि - जाग्रत्स्वप्नयोरुपाधेः सत्त्वाज्जीवब्रह्मणोर्भेदः प्रतीयते। सुषुप्तौ तदभावाद्भेदो नैवोपलभ्यत इत्यतो जीवब्रह्मणोर्भेदः परमार्थतो नैवेति निश्चीयते। इत्यनुपलब्धिप्रमाणम्।

एवमेता भेदखण्डनयुक्तयः।