विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ३९ – संबन्धनिरूपणम्
आवर्तः ३९ – संबन्धनिरूपणम्¶
(1) ग्रन्थस्य विषयस्य (प्रमेयस्य) च प्रतिपाद्यप्रतिपादकभावः संबन्धः। ग्रन्थः प्रतिपादकः, विषयः (जीवब्रह्मैक्यं) प्रतिपाद्यः। यत् विषयं विविच्य बोधयति, तत् प्रतिपादकम्। यत् बोध्यते तत्प्रतिपाद्यम्।
(2) अधिकारिफलयोः प्राप्यप्रापकभावरूपः संबन्धः। फलं प्राप्यं, अधिकारी प्रापकः। यद्वस्तु लभ्यते तत् प्राप्यं, यो लब्धा स प्रापकः।
(3) अधिकारिविचारयोस्तु कर्तृकर्तव्यभावरूपः संबन्धः। अधिकारी कर्ता, कर्तव्यो विचारः। यः करोति स कर्ता, यत् क्रियते तत्कर्तव्यम्।
(4) ग्रन्थज्ञानयोः जन्यजनकभावः संबन्धः।
विचारद्वारा ज्ञानं प्रति ग्रन्थो जनकः, ज्ञानं जन्यम्।
यदुत्पादयति तज्जनकं, यदुत्पद्यते तज्जन्यम्।
एवमेव संबन्धान्तरमपि२ बोध्यम्।
यस्तु साधनसम्पन्नो जिज्ञासुः प्रथमं पठेत्।
इमं तरङ्गं सततं मुक्तोऽसौ नात्र संशयः॥
इति श्रीवासुदेवब्रह्मेन्द्रसरस्वतीविरचिते विचारसागरे अनुबन्धसामान्यनिरूपणं नाम प्रथमस्तरङ्गः।
ग्रन्थकारटिप्पणी
१. संबन्धरूपानुबन्धकथने प्रयोजनम् – यस्य वस्तुनो येन सह संबन्धो भवति तस्य तद्विषयेऽप्युपयोगोऽस्ति। यथा कुलालादीनां घटादिना सह संबन्धोऽस्ति, अतः कुलालादयो घटाद्युत्पत्तिविषये उपयुज्यन्ते। यस्य येन संबन्धो नास्ति न तस्य तद्विषये उपयोगोऽस्ति। यथा चक्षुषो वाय्वाकाशाभ्यां संबन्धाभावात् तद्विषयीकरणे नोपयोगः। एवं ग्रन्थब्रह्मणोः संबन्धाभावे ग्रन्थस्य न ब्रह्म विषयो भवेत्। ग्रन्थोऽपि न ब्रह्मप्रतिपादकः स्यात्। तस्मात् परस्परोपकारसिद्ध्यर्थमनयोः संबन्धः अतद्व्यावृत्त्या बोध्यबोधकभावरूपः कल्प्यते। इति।
२. संबन्धान्तरशब्देन श्रवणादेर्ज्ञानेन सह, ज्ञानस्य च मोक्षेण सह साध्यसाधनभावरूपः संबन्धो विज्ञेयः।