सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः १४ – अनुबन्धचतुष्टयम्

आवर्तः १४ – अनुबन्धचतुष्टयम्

अनुबन्धचतुष्टयम् – अधिकारिविषयप्रयोजनसंबन्धानामनुबन्ध इति नाम।

"सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्।
यावत् प्रयोजनं नोक्तं तावत् तत्केन गृह्यते॥"

इति वचनात् प्रयोजनादिज्ञानाभावे विवेकिनां ग्रन्थे प्रवृत्त्यनुपपत्तेस्तदङ्गभूतोऽनुबन्धः प्रथमं१ निरूप्यते।

ग्रन्थकारटिप्पणी

१. स्तम्भचतुष्टयाभावे यथा मण्डपो न तिष्ठति, तद्वद् अनुबन्धचतुष्टयाभावे न कस्यापि ग्रन्थे प्रवृत्तिः सिद्ध्येत्। तस्माद्ग्रन्थादौ तत्र प्रवृत्त्यर्थमवश्यं ग्रन्थकर्त्रा तच्चतुष्टयं निरूपणीयम्। स्वज्ञानं अनु = स्वविवेकविज्ञानानन्तरमेव मुमुक्षुं ग्रन्थेन बध्नाति = वेदान्तविचारे प्रवर्तयतीत्यनुबन्धः।