विचारसागरः — प्रथमस्तरङ्गः — आवर्तः १३ – विचारसागरग्रन्थस्य वैशिष्ट्यम्
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः १३ – विचारसागरग्रन्थस्य वैशिष्ट्यम्¶
सत्स्वप्यनेकेषु भाषाग्रन्थेषु पञ्चभाषात्मबोधादिषु विना विचारसागरं स्वात्मविषयकसर्वसंशया न निवर्तेरन्। यतः केचन ग्रन्थकाराः श्रवणमात्रं कृत्वा भाषाग्रन्थं रचयामासुः। ततस्तद्गतविषयाः केचन शास्त्रानुसारिणो न भवन्ति। क्वचित् शास्त्रार्थवैपरीत्यं चोपलभ्यते। अपरे केचन स्वल्पशास्त्राभ्यासमात्रेण भाषाग्रन्थान् रचयामासुः। तत्र वेदान्तार्थस्य समग्रस्यानुक्तत्वात् न तैर्निःसंशयज्ञानमुदेति।
अस्मिन् विचारसागरे तु वेदान्तार्थाः समर्मकाः समग्रतया शास्त्रानुसारेण प्रतिपाद्यन्ते। सर्वत्र शास्त्राविरोधेन चात्मज्ञानोपयोगिविषयाः सप्रपञ्चं निरूप्यन्ते। तस्मादयमेव सर्वेभ्यो वेदान्तग्रन्थेभ्य उत्तमोत्तमः। नास्त्यस्य समं ग्रन्थान्तरम्।