सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः १२ – संस्कृतग्रन्थेषु सत्स्वपि भाषाग्रन्थानां रचनं मन्दानामुपकाराय

आवर्तः १२ – संस्कृतग्रन्थेषु सत्स्वपि भाषाग्रन्थानां रचनं मन्दानामुपकाराय

वेदान्तसिद्धान्तरूपनीरपूर्णोऽतिगम्भीरोऽयं विचारसागराख्यो२ ग्रन्थः।

ग्रन्थकारटिप्पणी

२. गुरुशिष्ययोः तत्त्वबुभुत्साकथारूपेण वादेन वा, पूर्वपक्षसिद्धान्तचर्चारूपेण वा, जडचेतनपदार्थयोः उपक्रमादिषड्विधतात्पर्यलिङ्गैर्यो निर्णयः स विचारः। तेन पर्यवसन्नोऽर्थः सिद्धान्तः। स एव सागर इव सागरः।

कुतः – अनेकशङ्कापङ्कप्रक्षालकसमाधानरूपसलिलपूर्णत्वात्। अनेकाध्यायरूपतरङ्गवत्त्वात्। कठिनप्रमेयरूपग्राहवत्त्वात्।
शुद्धबोधस्वरूपनिर्णायकसिद्धान्तरूपरत्नानामाकरत्वात्। परकूलप्रापणाय शुद्धबुद्धिरूपनौकावत्त्वात्। असकृदभ्यासात्मकानुकूलवातेरितत्वात्। अनन्यप्रत्यग्ब्रह्मनिष्ठगुरुरूपनौकादण्डवत्त्वात्। एतद्ग्रन्थाभ्यासजनितज्ञानगम्यमोक्षरूपतीरवत्त्वाच्च।

गुरुमुखात् तीव्रतरश्रद्धाभक्तिसाधनचतुष्टयपूर्वकमस्य ग्रन्थस्य श्रवणमनननिदिध्यासनजन्यस्वस्वरूपापरोक्षसाक्षात्कारेण अविद्याद्यखिलानर्थनिवृत्त्या केवलाद्वितीयचिन्मात्ररूपो धीरः परमानन्दमाप्नोति३।

ग्रन्थकारटिप्पणी

३. 'धी'शब्दस्य बुद्धिरर्थः। 'र' इत्यस्य विषयेभ्यः परावृत्य तद्रक्षणमर्थः। तथा च विषयेभ्यो बुद्धिं यो नियच्छति स एव धीरः। "पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात् पराङ् पश्यति नान्तरात्मन्। कश्चिद्धीरः" (क० २।१।१) इत्यादिश्रुतेः।

ननु – सत्स्वनेकप्राचीनोद्ग्रन्थेषु सूत्रतद्भाष्यवार्तिकादिषु४ किमित्ययमपूर्वो ग्रन्थोऽधुना विरच्यत इति चेन्न। तेषामत्यन्तप्रौढोत्तमाधिकारिकत्वेन मन्दानामुपकारायास्य साफल्यात्।

ग्रन्थकारटिप्पणी

४. सूत्रं –
"अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥"

षड्दर्शनात्मकानेकग्रन्थेषु सत्स्वप्यत्र 'सूत्र' शब्देन श्रीकृष्णद्वैपायनप्रणीतं (५५५ सूत्रात्मकं) शारीरकमीमांसाशास्त्रं गृह्यते।

भाष्यं –
"सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः।
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः॥"

एवं सत्स्वप्यनेकेषु भाष्येषु भगवत्पादीयमेवात्र भाष्यं योग्यं ग्रहीतुम्।

वार्तिकं –
"उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते।
तदेव वार्तिकं प्राहुर्वार्तिकज्ञा महर्षयः॥"

सत्स्वप्येवंजातीयकेष्वनेकेषु वार्तिकेषु श्रीशङ्करभगवत्पादपूज्यशिष्यमण्डनमिश्राख्यश्रीसुरेश्वराचार्यकृतमेवात्र वार्तिकं ग्राह्यम्॥

आदि – आदिपदग्राह्याणि उपनिषद्गीतादीनि।