सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः १०-११ – आक्षेपसमाधानानि

आवर्तः १० – चतुर्थ आक्षेपः

ननु – भवद्गुरुपरम्परागतसगुणेष्टदेवतानमस्कारात्मकमङ्गलं१ युक्तं कर्तुमिति चेत्॥

ग्रन्थकारटिप्पणी

१. रामकृष्णादि।

आवर्तः ११ – समाधानम्

उच्यते – यत्स्वरूपपरिज्ञानाय साधकाः चित्तशुद्धये निष्कामकर्माणि, चित्तैकाग्र्यायोपासनानि च यमाद्यष्टाङ्गसहिता आचरन्ति तादृशप्रत्यगेकरसचिन्मात्राखण्डब्रह्मरूपत्वात् स्वस्य मम, कमन्यं नमस्कुर्याम्।

स्वस्वरूपातिरिक्तस्य द्वैतस्याणुमात्रस्याप्यभावात् भेदघटितत्रिपुटीविषयभूतनमस्कारादिव्यवहार एव न संभवतीत्यभिप्रायः॥