सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः १५ – अधिकारिलक्षणम्

आवर्तः १५ – अधिकारिलक्षणम्

अधिकारिलक्षणम् – निसर्गत एव सर्वेषामन्तःकरणे मलविक्षेपावरणात्मकदोषत्रयमास्ते२। निष्कामकर्मानुष्ठानेनान्तःकरणस्थमलरूपदोषनिवृत्तिः। उपासनया विक्षेपस्य। यस्य निष्कामकर्मोपासनाभ्यां मलविक्षेपयोर्निवृत्तावपि स्वस्वरूपावारकाज्ञानं न निवृत्तं यश्च पुष्कलसाधनचतुष्टयसंपन्नः सोऽधिकारी१।

ग्रन्थकारटिप्पणी

२. स्थूलदेहगतवातपित्तश्लेष्मरूपदोषत्रयजन्यरोगनिवृत्तये यथा धन्वन्तरिप्रभृतिभिरायुर्वेदः प्राणायि, एवं सर्वप्राणिसाधारणान्तःकरणगतमलविक्षेपाज्ञानाख्यदोषत्रयनिवृत्तये कर्मोपासनाज्ञानकाण्डत्रयोपबृंहितं वेदचतुष्टयमीश्वरेणाकारि।

• मलं नाम पापम् – तच्च संस्कारात्मनातिसूक्ष्मत्वान्न प्रत्यक्षीक्रियते। किन्तु निषिद्धकर्मानुष्ठानेन, विषयासक्त्या, चित्तगताशुभवासनाभिश्चानुमीयते। तद्वान् पुरुषो मलिनो भवति। अतस्तन्निवृत्त्यर्थं निष्कामकर्माणि भूतदयादि, ईश्वरनामोच्चारणादीनि च साधनानि विहितानि। तत्राद्यद्वयं मलमात्रं निवर्तयेत्। नामोच्चारणं तु विक्षेपमपि।

• विक्षेपो नाम – चित्तचाञ्चल्यम्। यस्य चित्तं वेदान्तश्रवणे स्वरूपानुसन्धाने वा स्थैर्यं न प्राप्नोति किन्तु विषयाभिमुखीभवति, तेन तन्निवृत्तये ईश्वरनामोच्चारणं, अजपामन्त्रावृत्तिः, ईश्वरमूर्तिध्यानं, निर्गुणब्रह्मानुसन्धानमित्याद्युपाया अनुष्ठेयाः। उपासनादिभिश्चित्तैकाग्र्यसंभवात्।

अथवा – शरीरवाङ्मनोभिः, पुष्कलेन धनेन, शुश्रूषया च ईश्वर एवास्मदनन्तकोटिजन्मार्जितसुकृतपरिपाकवशात् गुरुमूर्तिरूपेणावतीर्ण इति श्रीसद्गुरूपासनं कुर्यात्। "यस्य देवे परा भक्तिः" इत्यादिश्रुतेः। एतच्च गुरूपासनं, विनैव कर्मोपासनादिसाधनकलापं चित्तशुद्धिद्वारा चित्तैकाग्र्यं जनयेत्।

अथवा – अहर्निशं वेदान्तश्रवण एवात्यन्तमादरेण तीव्रतरा प्रवृत्तिरप्युपायान्तरमेव। तथा च श्रुतिस्मृतिवादाः – "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बृ० ४।५।६), "वेदान्तविज्ञानसुनिश्चितार्थाः" (मु० ३।२।६), "वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम्" (श्वे.6.22.), "दिने दिने च वेदान्तश्रवणात्" (कै० ४), "आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया" इत्यादयः। एतच्च वेदान्तश्रवणं स्वातन्त्र्येणैव कर्मोपासनादिकमनपेक्ष्य चित्तशुद्ध्यैकाग्र्यादि जनयेत्।

• "नाहं अखण्डचिन्मात्रब्रह्मरूपप्रत्यगात्मानं जाने" इति व्यवहारहेतुरज्ञानम्। तच्च तादृशतत्त्वज्ञानादेव नश्यति।


१. यथा बृहस्पतिसवे ब्राह्मणस्यैवाधिकारः, राजसूये क्षत्रियस्यैव, वैश्यस्तोमे वैश्यस्यैव, तथा साधनचतुष्टयसंपन्नस्यैव वेदान्तविचारेऽधिकारो नान्यस्य।

विचारलहरी

संक्षिप्तचित्रम् अत्र ।