सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ३ – अनेकविशेषणानां प्रयोजनम्

आवर्तः ३ – अनेकविशेषणानां प्रयोजनम्

अनेकविशेषणानां प्रयोजनम् – पूर्वोक्तात्मलक्षणेषु "सुखं, नित्यम्"; "नित्यं, स्वप्रकाशम्"; इति द्वाभ्यां द्वाभ्यामेव लक्षणाभ्यां सर्वत्रातिव्याप्तिदोषनिवृत्तावपि अनेकधातिव्याप्तिनिरासोक्तिस्तु तल्लक्षणप्रयोजनेषु विस्पष्टार्थरुचीनां सर्वप्रकारेण ब्रह्मज्ञानोत्पत्तये। पूर्वोक्ताखिललक्षणलक्षितचिन्मात्रब्रह्मैवाहं न पराग्रूप इति मङ्गलार्थः१।

ग्रन्थकारटिप्पणी

१. अस्य ग्रन्थस्य जीवब्रह्मैक्यं विषय इत्यनेन सूच्यते।