विचारसागरः — प्रथमस्तरङ्गः — आवर्तः ४-५ – आक्षेपसमाधानानि
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः ४ – प्रथम आक्षेपः¶
ननु हरिहरब्रह्मादिषूपास्येषु सत्सु तत्स्मरणात्मकमङ्गलाचरणं विहाय स्वात्मस्मरणरूपं मङ्गलं किमिति युक्तं कर्तुमिति चेत्।
आवर्तः ५ – समाधानम्¶
उच्यते – मय्यखण्डचिदम्भोधौ हरिहरब्रह्मार्केन्द्रचन्द्रवरुणयमशक्तिकुबेरगणपत्याद्युपलक्षिताः सर्वेऽपि देवास्तरङ्गायन्ते। अतो मयि सर्वप्रपञ्चाधिष्ठाने जगत्कारणे स्मृते मत्कार्यभूतास्ते सर्वेऽपि देवाः स्मृता एव भवन्ति। तस्मात् स्वविषयकं मङ्गलाचरणमेव युक्तम्।