विचारसागरः — प्रथमस्तरङ्गः — आवर्तः २ – विशेषणानां प्रत्येकं प्रयोजनम्
मुखपृष्ठम् · ⬆ प्रथमस्तरङ्गः · ← · →
आवर्तः २ – विशेषणानां प्रत्येकं प्रयोजनम्¶
अथ विशेषणानां प्रत्येकं प्रयोजनमुच्यते –
(१) सुखं + नित्यम् – सुखस्य नित्यत्वविशेषणानुपादाने वैषयिके सामये
सुखे, नैयायिकाभिमते आत्मगुणे आनन्दे चातिव्याप्तिः१। तदुपादाने तु विषयानन्दस्य, आत्मगुणस्य
चानन्दस्यानित्यत्वप्रसिद्धेर्नातिव्याप्तिः।
ग्रन्थकारटिप्पणी
१. अलक्ष्ये लक्षणस्य सत्त्वमतिव्याप्तिः, लक्ष्यैकदेशासत्त्वमव्याप्तिः, लक्ष्यसामान्यासत्त्वमसंभवः।
(२) नित्यं + स्वप्रकाशम् — नित्यत्वमात्रोक्तौ न्यायमतसिद्धकालाकाशादिनित्यपदार्थेषु अतिव्याप्तेस्तद्वारणाय 'स्वप्रकाशम्' इति। आकाशादीनां नित्यत्वेऽपि न्यायमते तेषां जडत्वेन स्वप्रकाशत्वाभावान्नातिव्याप्तिः।
(३) स्वप्रकाशं + व्यापकम् – स्वप्रकाशत्वमात्रोक्तौ सूर्यादिज्योतिषि, न्यायमतसिद्धात्मगुणे* ज्ञाने, बौद्धानां क्षणिकविज्ञानात्मनि चातिव्याप्तिप्रसक्तेस्तद्वारणाय 'व्यापकम्' इति तेषां परिच्छिन्नत्वान्नातिव्याप्तिः।
ग्रन्थकारटिप्पणी
* व्यवसायात्मकज्ञानस्यानुव्यवसायग्राह्यत्ववादिनैयायिकैरप्यनुव्यवसायस्य ग्राहकान्तराङ्गीकारेऽनवस्थाभयात् स्वप्रकाशत्वमङ्गीकर्तव्यम्। तथा च व्यवसायात्मकज्ञानस्यापि स्वप्रकाशत्वमस्त्वित्यभिप्रायेणैवमुक्तम्
(४) व्यापकं + नामरूपयोरधिष्ठानम् — व्यापकत्वमात्रोक्तौ नैयायिकप्राभाकरमतसिद्धात्मनि, आकाशादौ, साङ्ख्यमतसिद्धप्रकृतौ चातिव्याप्तेस्तद्वारणाय 'नामरूपयोरधिष्ठानम्' इति। पूर्वोक्तेष्वाकाशादिषु२ त्रिषु व्यापकत्वाङ्गीकारेऽपि नामरूपयोरधिष्ठानत्वानङ्गीकारान्नातिव्याप्तिः।
ग्रन्थकारटिप्पणी
२. आकाशादीनां व्यापकत्वमापेक्षिकम्।
(५) नामरूपयोरधिष्ठानं + स्वप्रकाशम् [बुद्ध्यबोध्यं बुद्धेर्दृक्] – नामरूपयोरधिष्ठानत्वमात्रोक्तौ प्रातिभासिकसर्पादिनामरूपाधिष्ठानरज्ज्वादावतिव्याप्तिस्तद्वारणाय३ 'स्वप्रकाशं' [ बुद्ध्यबोध्यं बुद्धेर्दृक् ] इति। रज्ज्वादेर्जडत्वान्नातिव्याप्तिः। अयं च परिष्कारो मन्ददृष्ट्या। वस्तुतस्तु वेदान्तिमते रज्ज्वादिसर्वकल्पनाधिष्ठानं तत्तदुपहितचैतन्यमेव। अतो "नामरूपयोरधिष्ठानम्" इत्येव लक्षणम्।
ग्रन्थकारटिप्पणी
३. प्रतीतिकालमात्रसत्ताकं = कल्पितं = मिथ्या इत्यर्थः।
(६) स्वप्रकाशं [बुद्ध्यबोध्यं बुद्धेर्दृक्] + निर्मलम् – स्वप्रकाशत्वमात्रोक्तौ केषाञ्चिदुपासकानां मते आत्मन्यतिव्याप्तेस्तद्वारणाय 'निर्मलम्' इति। उपासकमते तु आत्मनः स्वप्रकाशत्वेऽपि अविद्यादिमलवत्त्वेनैवाभ्युपगमान्नातिव्याप्तिः।
(७) निर्मलं + अपारम् – निर्मलत्वमात्रोक्तौ साङ्ख्याभिमते आत्मन्यतिव्याप्तिसंभवात्तद्वारणाय 'अपारम्' इति। तन्मते आत्मनो देशकालपरिच्छेदाभावेऽपि वस्तुपरिच्छेदस्येष्टत्वात्। तस्याप्यभावाद्ब्रह्मणो नातिव्याप्तिः॥