विचारसागरः — प्रथमस्तरङ्गः — आवर्तः १ – जीवब्रह्मैक्यरूपमङ्गलम्
वस्तु१निर्देशरूपमङ्गलाचरणम्२
ग्रन्थकारटिप्पणी
१. निर्गुणब्रह्मात्मावबोधनं वस्तु।
२. विघ्नध्वंसानुकूलव्यापारविशेषः मङ्गलम्।
आवर्तः १ – जीवब्रह्मैक्यरूपमङ्गलम्¶
सुखं३ नित्यं४ स्वप्रकाशं५ व्यापकं६ नामरूपयोः७।
अधिष्ठानं बुद्ध्यबोध्यं बुद्धेर्दृग्यत्तु निर्मलम्॥ १॥
अपारं सर्ववेदान्तवेद्यं प्रत्यक् परं महः।
तदेवाहं न मत्तोऽन्यदिति मे निश्चिता मतिः॥ २॥
ग्रन्थकारटिप्पणी
३. सुखं – परमप्रेमास्पदीभूतनिरतिशयानन्दः।
४. नित्यं – त्रिकालाबाध्यं कूटस्थसत्यम्।
५. स्वप्रकाशं – अनन्याधीनप्रकाशरूपं, चिन्मयमिति यावत्।
६. व्यापकं – देशकालवस्तुपरिच्छेदशून्यं, अनन्तं, निरतिशयमहत्।
७. नामरूपयोरधिष्ठानं – विवर्तोपादानकारणम्।
विचारलहरी
- अध्यस्तत्वं विवर्तकार्यत्वम् । (सर्पः)
- अधिष्ठानत्वं विवर्तोपादानकारणत्वम् ।
अस्यार्थस्तु – 'तदेवाहम्’ इत्युक्त्या महावाक्यार्थप्रत्यगभिन्नपरमात्मैव स्वस्वरूपमिति।
तद्विशेषणानि निरूप्यन्ते – तत् प्रत्यक् परं महः (ब्रह्म)। कथंभूतम् – सुखं, नित्यं, स्वप्रकाशं, व्यापकं, नामरूपयोरधिष्ठानं च भवति।
पुनश्च तद्ब्रह्म कथंभूतम् – बुद्ध्यबोध्यं बुद्धेर्दृक् च भवति। अस्यार्थः – बुद्ध्यबोध्यं = न हि बुद्धिर्ब्रह्म विजानाति = प्रकाशयति।
- "नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा" (क० २।३।१२),
- "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" (तै०ब्र० ४।९),
- "न तत्र सूर्यो भाति" (क. 2.2.15, मु. 2.2.10, श्वे 6.14)
इत्यादिश्रुतिभ्यः।
किन्तु बुद्धेर्दृक् = सर्वसाक्षि ब्रह्मैव बुद्धिं प्रकाशयति।
- "यन्मनसा न मनुते येनाहुर्मनो मतम्" (के० १।५),
- "तस्य भासा सर्वमिदं विभाति" (क. 2.2.15, मु. 2.2.10. श्वे 6.14)
इत्यादिश्रुतिभ्यः।
विचारलहरी
स्वप्रकाशकत्वे सति कुतः शास्त्रवेद्यं ब्रह्म (शास्त्रं तु ब्रह्मणः प्रमाणत्वेन प्रतिष्ठितम्)?
(२) बुद्धिर्न शब्दस्य शक्तिवृत्त्या ब्रह्म विजानाति, किन्तु लक्षणावृत्त्या।
विचारलहरी
न साक्षात् । लक्षणयैव ।
चेतसा वेदितव्यः इति श्रुतिः । तर्हि बुद्ध्या प्रकाश्यमेव!
(३) मलविक्षेपादिदोषयुक्ता बुद्धिर्न ब्रह्म विजानाति, किन्तु तद्रहिता।
शास्त्राचार्योपदेशशमदमादिसंस्कृतं मन आत्मदर्शने करणम् इति
गीताभाष्यवचनात् (भ०गी० २।२१)।
विचारलहरी
बुद्ध्या ज्ञातव्यं, बुद्ध्या ज्ञातुं न शक्यते इति वाक्यद्वयमपि श्रुतौ ।
समाधानम् – संस्कृतबुद्ध्या (साधनचतुष्टययुक्तया) ज्ञायते, असंस्कृतबुद्ध्या न ज्ञायते ।
भवतु, कथं वा संस्कृतमनोऽपि स्वयंप्रकाशं ब्रह्म प्रकाशयेत्?
असौ बुद्धिरपि फलव्याप्त्या१
ब्रह्म तु
न ब्रह्म विजानीयात् ↗,
किन्तु वृत्तिव्याप्त्यैव२। इयञ्च वृत्तिर्दीपो यथा स्वसंबद्धपदार्थान्
प्रकाशयति, न तथा ब्रह्म प्रकाशयितुं प्रभवति। किन्त्वन्धकारे
घटाद्यावृतरत्नप्रदीपादिर्यथा घटादिस्वावरणभङ्गे स्वयमेव प्रकाशते, एवं 'अहं ब्रह्मास्मि’
इति प्रमाणजन्यप्रमारूपवृत्तिर्ब्रह्मावारकाज्ञाननाशमात्रं करोति,
बुद्ध्यादिसाधनान्तरनिरपेक्षमेव स्वसंबद्धसर्वावभासकत्वरूपस्वयंज्योतिष्ट्वेन नित्यापरोक्षरूपत्वात् स्वयं प्रथते।
इति ब्रह्मणः स्वप्रकाशत्वबोधकमिदं विशेषणम्।
विचारलहरी
बुद्ध्यादिसाधनान्तरनिरपेक्षमेव – स्वयंप्रकाशम्, इन्द्रियमनोबुद्धिकरणसाधननिरपेक्षम् ।
बुद्धिस्तु अध्यस्तानात्मनिवृत्त्यर्थमेव, न तु आत्मज्ञानार्थम् । आत्मनः स्वप्रकाशकत्वात्, बुद्धेश्च जडत्वात् ।
ग्रन्थकारटिप्पणी
१. वृत्तिप्रतिफलितचिदामासविषयत्वं फलव्याप्तिः।
२. केवलवृत्तिविषयत्वं वृत्तिव्याप्तिः।
तथा चोक्तं पञ्चदश्याम् ↗ –
स्वप्रकाशोऽपि साक्ष्येव धीवृत्त्या व्याप्यतेऽन्यवत् ।
फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् ॥(तृप्तिदीपे० ९०)॥
बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम् ।
तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥९१॥
ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ।
स्वयं स्फुरणरूपत्वान्नाभास उपयुज्यते ॥९२॥
चक्षुर्दीपावपेक्ष्येते घटादेर्दर्शने, तथा ।
न दीपदर्शने, किन्तु चक्षुरेकमपेक्ष्यते ॥९३॥
पुनश्च तद्ब्रह्म कथं भूतम्? निर्मलं३ = शुद्धं, अपारं४ = देशकालवस्त्वपरिच्छिन्नं च भवति।
ग्रन्थकारटिप्पणी
३. मायातत्कार्यरहितत्वान्निर्मलं = शुद्धम्।
४. पारः = अन्तः। स च देशकालवस्तुकृतभेदात् त्रिविधः। तदभावादपारं ब्रह्म।
(४.१) तत्र देशः = प्रदेशः, यत् सर्वत्राव्यापित्वेनैकदेशवर्ति तस्य देशतोऽन्तोऽस्ति, यथा घटादेः, न तु ब्रह्मणः, तच्च सर्वत्र व्याप्यावतिष्ठते। सर्वस्यापि देशस्य मायया तस्मिन्नध्यस्तत्वेन तदनवच्छेदकत्वात्।
(४.२) कालः = अविद्याचित्संयोगः। "कालो मायात्मसंबन्धः सर्वसाधारणात्मकः" इत्युक्तेः। यस्य तु जन्मतः प्रागूर्ध्वं चाभावो दृश्यते तस्य कालतोऽन्तोऽस्ति, यथा विद्युदादेः, न ब्रह्मणः जन्मादिविकाराभावात् तस्य, कालस्यापि तदध्यस्तत्वाच्च।
(४.३) वस्तु = पदार्थः। यत् यस्माद्भिद्यते तेन तस्यान्तो भवेत्, यथा घटः पटाद्भिद्यत इति घटेन पटस्यान्तो भवति। ब्रह्मणि तु सर्वस्यापि जगतः मृदि घटशरावादेरिव कल्पितत्वेनावस्तुत्वान्न वस्तुपरिच्छेदोऽपि तस्य संभवति।
तस्माद्ब्रह्म अपारं = अनन्तं = देशकालवस्तुपरिच्छेदशून्यं, ततोऽन्यस्य द्वितीयस्याभावात्।