उपदेशसाहस्री — पद्यभागः — ८. मतिविलापनप्रकरणम्
मुखपृष्ठम् · ⬆ पद्यभागः · ← · →
८. मतिविलापनप्रकरणम्¶
चितिस्वरूपं स्वत एव मे मते रसादियोगस्तव मोहकारितः ।
अतो न किञ्चित् तव चेष्टितेन मे फलं भवेत् सर्वविशेषहानतः ॥१॥
विमुच्य मायामयकार्यतामिह प्रशान्तिमायाह्यसदीहितात् सदा ।
अहं परं ब्रह्म सदा विमुक्तवत् तथाजमेकं द्वयवर्जितं यतः ॥२॥
सदा च भूतेषु समोऽस्मि केवलो यथा च खं सर्वगमक्षरं शिवम् ।
निरन्तरं निष्कलमक्रियं परं ततो न मेऽस्तीह फलं तवेहितैः ॥३॥
अहं ममैको न तदन्यदिष्यते तथा न कस्याप्यहमस्म्यसङ्गतः ।
असङ्गरूपोऽहमतो न मे त्वया कृतेन कार्यं तव चाद्वयत्वतः ॥४॥
फले च हेतौ च जनो विषक्तवानिति प्रचिन्त्याहमतो विमोक्षणे ।
जनस्य संवादमिमं प्रक्लृप्तवान् स्वरूपतत्त्वार्थविबोधकारणम् ॥५॥
संवादमेतं यदि चिन्तयेन् नरो विमुच्यतेऽज्ञानमहाभयागमात् ।
विमुक्तकामश्च तथा जनः सदा चरत्यशोकः सम आत्मवित् सुखी ॥६॥