सामग्रीं त्यजन्तु

उपदेशसाहस्री — पद्यभागः — ९. सूक्ष्मताव्यापिताप्रकरणम्

९. सूक्ष्मताव्यापिताप्रकरणम्

सूक्ष्मताव्यापिते ज्ञेये गन्धादेरुत्तरोत्तरम् ।
प्रत्यगात्मावसानेषु पूर्वपूर्वप्रहाणतः ॥१॥

शारीरा पृथिवी तावद् यावद् बाह्या प्रमाणतः ।
अबादीनि च तत्त्वानि तावज् ज्ञेयानि कृत्स्नशः ॥२॥

वाय्वादीनां यथोत्पत्तेः पूर्वं खं सर्वगं तथा ।
अहमेकः सदा सर्वश्चिन्मात्रः सर्वगोऽद्वयः ॥३॥

ब्रह्माद्याः स्थावरान्ता ये प्राणिनो मम पूः स्मृताः ।
कामक्रोधादयो दोषा जायेरन् मे कुतोऽन्यतः ॥४॥

भूतदोषैः सदास्पृष्टं सर्वभूतस्थमीश्वरम् ।
नीलं व्योम यथा बालो दुष्टं मां वीक्षते जनः ॥५॥

मच्चैतन्यावभास्यत्वात् सर्वप्राणिधियां सदा ।
पूर्मम प्राणिनः सर्वे सर्वज्ञस्य विपाप्मनः ॥६॥

जनिमज् ज्ञानविज्ञेयं स्वप्नज्ञानवदिष्यते ।
नित्यं निर्विषयं ज्ञानं तस्माद् द्वैतं न विद्यते ॥७॥

ज्ञातुर्ज्ञातिर्हि नित्योक्ता सुषुप्ते त्वन्यशून्यतः ।
जाग्रज्ज्ञातिस्त्वविद्यातस्तद् ग्राह्यं चासदिष्यताम् ॥८॥

रूपवत्त्वाद्यसत्त्वान् न दृष्ट्यादेः कर्मता यथा ।
एवं विज्ञानकर्मत्वं भूम्नो नास्तीति गम्यते ॥९॥