उपदेशसाहस्री — पद्यभागः — ७. बुद्ध्यारूढप्रकरणम्
मुखपृष्ठम् · ⬆ पद्यभागः · ← · →
७. बुद्ध्यारूढप्रकरणम्¶
बुद्ध्यारूढं सदा सर्वं दृश्यते यत्र तत्र वा ।
मया तस्मात् परं ब्रह्म सर्वज्ञश्चास्मि सर्वगः ॥१॥
यथात्मबुद्धिचाराणां साक्षी तद्वत् परेष्वपि ।
नैवापोढुं न वादातुं शक्यस्तस्मात् परो ह्यहम् ॥२॥
विकारित्वमशुद्धत्वं भौतिकत्वं न चात्मनः ।
अशेषबुद्धिसाक्षित्वाद् बुद्धिवच् चाल्पवेदना ॥३॥
मणौ प्रकाश्यते यद्वद् रक्ताद्याकारतातपे ।
मयि सन्दृश्यते सर्वमातपेनेव तन् मया ॥४॥
बुद्धौ दृश्यं भवेद् बुद्धौ सत्यां नास्ति विपर्यये ।
द्रष्टा यस्मात् सदा द्रष्टा तस्माद् द्वैतं न विद्यते ॥५॥
अविवेकात् पराभावं यथा बुद्धिरवेत् तथा ।
विवेकात् तु परादन्यः स्वयं चापि न विद्यते ॥६॥