उपदेशसाहस्री — पद्यभागः — ३. ईश्वरात्मप्रकरणम्
मुखपृष्ठम् · ⬆ पद्यभागः · ← · →
३. ईश्वरात्मप्रकरणम्¶
ईश्वरश्चेदनात्मा स्यान् नासावस्मीति धारयेत् ।
आत्मा चेदीश्वरोऽस्मीति विद्या सान्यनिवर्तिका ॥१॥
आत्मनोऽन्यस्य चेद् धर्मा अस्थूलत्वादयो मताः ।
अज्ञेयत्वेऽस्य किं तैः स्यादात्मत्वे त्वन्यधीह्नुतिः ॥२॥
मिथ्याध्यासनिषेधार्थं ततोऽस्थूलादि गृह्यताम् ।
परत्र चेन् निषेधार्थं शून्यतावरणं हि तत् ॥३॥
बुभुत्सोर्यदि चान्यत्र प्रत्यगात्मन इष्यते ।
अप्राणो ह्यमनाः शुभ्र इति चानर्थकं वचः ॥४॥