उपदेशसाहस्री — पद्यभागः — ४. तत्त्वज्ञानस्वभावप्रकरणम्
मुखपृष्ठम् · ⬆ पद्यभागः · ← · →
४. तत्त्वज्ञानस्वभावप्रकरणम्¶
अहंप्रत्ययबीजं यदहम्प्रत्ययवत्स्थितम् ।
नाहम्प्रत्ययवह्न्युष्टं कथं कर्म प्ररोहति ॥१॥
दृष्टवच् चेत् प्ररोहः स्यान् नान्यकर्मा स इष्यते ।
तन्निरोधे कथं तत् स्यात् पृच्छामो वस्तदुच्यताम् ॥२॥
देहाद्यारम्भसामर्थ्याज् ज्ञानं सद्विषयं त्वयि ।
अभिभूय फलं कुर्यात् कर्मान्ते ज्ञानमुद्भवेत् ॥३॥
आरब्धस्य फले ह्येते भोगो ज्ञानं च कर्मणः ।
अविरोधस्तयोर्युक्तो वैधर्म्यं चेतरस्य तु ॥४॥
देहात्मज्ञानवज् ज्ञानं देहात्मज्ञानबाधकम् ।
आत्मन्येव भवेद् यस्य स नेच्छन्नपि मुच्यते ॥५॥