उपदेशसाहस्री — पद्यभागः — २. प्रतिषेधप्रकरणम्
मुखपृष्ठम् · ⬆ पद्यभागः · ← · →
२. प्रतिषेधप्रकरणम्¶
प्रतिषेद्धुमशक्यत्वान् नेति नेतीति शेषितम् ।
इदं नाहमिदं नाहमित्यद्धा प्रतिपद्यते ॥१॥
इदन्धीरिदमात्मोत्था वाचारम्भणगोचरा ।
निषिद्धात्मोद्भवत्वात् सा न पुनर्मानतां व्रजेत् ॥२॥
पूर्वबुद्धिमबाधित्वा नोत्तरा जायते मतिः ।
दृषिरेकः स्वयंसिद्धः फलत्वात् स न बाध्यते ॥३॥
इदंवनमतिक्रम्य शोकमोहादिदूषितम् ।
वनाद् गान्धारको यद्वत् स्वमात्मानं प्रपद्यते ॥४॥