सामग्रीं त्यजन्तु

उपदेशसाहस्री — पद्यभागः — १. उपोद्घातप्रकरणम्

१. उपोद्घातप्रकरणम्

चैतन्यं सर्वगं सर्वं सर्वभूतगुहाशयम् ।
यत् सर्वविषयातीतं तस्मै सर्वविदे नमः ॥१॥

समापय्य क्रियाः सर्वा दाराग्न्याधानपूर्विकाः ।
ब्रह्मविद्यामथेदानीं वक्तुं वेदः प्रचक्रमे ॥२॥

कर्माणि देहयोगार्थं देहयोगे प्रियाप्रिये ।
ध्रुवे स्यातां ततो रागो द्वेषश्चैव ततः क्रियाः ॥३॥

धर्माधर्मौ ततोऽज्ञास्य देहयोगस्तथा पुनः ।
एवं नित्यप्रवृत्तोऽयं संसारश्चक्रवद् भृशम् ॥४॥

अज्ञानं तस्य मूलं स्यादिति तद्धानमिष्यते ।
ब्रह्मविद्यात आरब्धा ततो निःश्रेयसं भवेत् ॥५॥

विद्यैवाज्ञानहानाय न कर्माप्रतिकूलतः ।
नाज्ञानस्याप्रहाणे हि रागद्वेषक्षयो भवेत् ॥६॥

रागद्वेषक्षयाभावे कर्म दोषोद्भवं ध्रुवम् ।
तस्मान् निःश्रेयसार्थाय विद्यैवात्र विधीयते ॥७॥

ननु कर्म तथा नित्यं कर्तव्यं जीवने सति ।
विद्यायाः सहकारित्वं मोक्षं प्रति हि तद् व्रजेत् ॥८॥

यथा विद्या तथा कर्म चोदितत्वाविशेषतः ।
प्रत्यवायस्मृतेश्चैव कार्यं कर्म मुमुक्षुभिः ॥९॥

ननु ध्रुवफला विद्या नान्यत् किञ्चिदपेक्षते ।
नाग्निष्टोमो यथैवान्यद् ध्रुवकार्योऽप्यपेक्षते ॥१०॥

तथा ध्रुवफला विद्या कर्म नित्यमपेक्षते ।
इत्येवं केचिदिच्छन्ति न कर्म प्रतिकूलतः ॥११॥

विद्यायाः प्रतिकूलं हि कर्म स्यात् साभिमानतः ।
निर्विकारात्मबुद्धिश्च विद्येतीह प्रकीर्तिता ॥१२॥

अहं कर्ता ममेदं स्यादिति कर्म प्रवर्तते ।
वस्त्वधीना भवेद् विद्या कर्त्रधीनो भवेद् विधिः ॥१३॥

कारकाण्युपमृद्नाति विद्याऽब्बुद्धिमिवोषरे ।
तत्सत्यमतिमादाय कर्म कर्तुं व्यवस्यति ॥१४॥

विरुद्धत्वादतः शक्यं कर्म कर्तुं न विद्यया ।
सहैवं विदुषा तस्मात् कर्म हेयं मुमुक्षुणा ॥१५॥

देहाद्यैरविशेषेण देहिनो ग्रहणं निजम् ।
प्राणिनां तदविद्योत्थं तावत् कर्मविधिर्भवेत् ॥१६॥

नेति नेतीति देहादीनपोह्यात्मावशेषितः ।
अविशेषात्मबोधार्थं तेनाविद्या निवर्तिता ॥१७॥

निवृत्ता सा कथं भूयः प्रसूयेत प्रमाणतः ।
असत्येवाविशेषे हि प्रत्यगात्मनि केवले ॥१८॥

न चेद् भूयः प्रसूयेत कर्ता भोक्तेति धीः कथम् ।
सदस्मीति च विज्ञाने तस्माद् विद्यासहायिका ॥१९॥

अत्यरेचयदित्युक्तो न्यासः श्रुत्यात एव हि ।
कर्मभ्यो मानसान्तेभ्य एतावदिति वाजिनाम् ॥२०॥

अमृतत्वं श्रुतं तस्मात् त्याज्यं कर्म मुमुक्षुभिः ।
अग्निष्टोमवदित्युक्तं तत्रेदमभिधीयते ॥२१॥

नैककारकसाध्यत्वात् फलान्यत्वाच् च कर्मणः ।
विद्या तद्विपरीताऽतो दृष्टान्तो विषमो भवेत् ॥२२॥

कृष्यादिवत् फलार्थत्वादन्यकर्मोपबृंहणम् ।
अग्निष्टोमस्त्वपेक्षेत विद्यान्यत् किमपेक्षते ॥२३॥

प्रत्यवायस्तु तस्यैव यस्याहङ्कार इष्यते ।
अहङ्कारफलार्थित्वे विद्येते नात्मवेदिनः ॥२४॥

तस्मादज्ञानहानाय संसारविनिवृत्तये ।
ब्रह्मविद्याविधानाय प्रारब्धोपनिषत् त्वियम् ॥२५॥

सदेरुपनिपूर्वस्य क्विपि चोपनिषद् भवेत् ।
मन्दीकरणभावाच् च गर्भादेः शातनात् तथा ॥२६॥