सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — आत्मस्वरूपम् — तत्त्वंपदार्थः
मुखपृष्ठम् · ⬆ आत्मस्वरूपम् · ← · →
तत्त्वंपदार्थः¶
श्रीगुरुरुवाच ।
शृणुष्वावहितो विद्वन्नद्य ते फलितं तपः ।
वाक्यार्थश्रुतिमात्रेण सम्यग्ज्ञानं भविष्यति ॥७०३॥
यावन्न तत्त्वम्पदयोरर्थः सम्यग्विचार्यते ।
तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥७०४॥
अवस्था सच्चिदानन्दाखण्डैकरसरूपिणी ।
मोक्षः सिध्यति वाक्यार्थापरोक्षज्ञानतः सताम् ॥७०५॥
वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये ।
तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ॥७०६॥
अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः ।
वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥७०७॥