सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — आत्मस्वरूपम् — आत्मनोऽद्वितीयत्वम्
मुखपृष्ठम् · ⬆ आत्मस्वरूपम् · ← · →
आत्मनोऽद्वितीयत्वम्¶
सत्त्वं चित्त्वं तथानन्दः स्वरूपं परमात्मनः ।
निर्गुणस्य गुणायोगाद्गुणास्तु न भवन्ति ते ॥६७३॥
विशेषणं तु व्यावृत्त्यै भवेद्द्रव्यान्तरे सति ।
परमात्माद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥६७४॥
वस्त्वन्तरस्याभावेन न व्यावर्त्यः कदाचन ।
केवलो निर्गुणश्चेति निर्गुणत्वं निरुच्यते ॥६७५॥
श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते ।
उष्णत्वं च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥६७६॥
सत्त्वचित्त्वानन्दतादि स्वरूपमिति निश्चितम् ।
अत एव सजातीयविजातीयादिलक्षणः ॥६७७॥
भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि ।
प्रपञ्चस्यापवादेन विजातीयकृता भिदा ॥६७८॥
नेष्यते तत्प्रकारं ते वक्ष्यामि शृणु सादरम् ।
अहेर्गुणविवर्तस्य गुणमात्रत्ववत् सतः ॥६७९॥
विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् ।
अपवाद इति प्राहुरद्वैतब्रह्मदर्शिनः ॥६८०॥
व्युत्क्रमेण तदुत्पत्तेर्द्रष्टव्यं सूक्ष्मबुद्धिभिः ।
प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥६८१॥
चतुर्विधं स्थूलशरीरजातं तद्भोज्यमन्नादि तदाश्रयादि ।
ब्रह्माण्डमेतत्सकलं स्थविष्ठमीक्षेत पञ्चीकृतभूतमात्रम् ॥६८२॥
यत्कार्यरूपेण यदीक्ष्यते तत्तन्मात्रमेवात्र विचार्यमाणे ।
मृत्कार्यभूतं कलशादि सम्यग्विचारितं सन्न मृदो विभिद्यते ॥६८३॥
अन्तर्बहिश्चापि मृदेव दृश्यते मृदो न भिन्नं कलशादि किञ्चन ।
ग्रीवादिमद्यत्कलशं तदित्थं न वाच्यमेतच्च मृदेव नान्यत् ॥६८४॥
स्वरूपतस्तत्कलशादिनाम्ना मृदेव मूढैरभिधीयते ततः ।
नाम्नो हि भेदो न तु वस्तुभेदः प्रदृश्यते तत्र विचार्यमाणे ॥६८५॥
तस्माद्धि कार्यं न कदापि भिन्नं स्वकारणादस्ति यतस्ततोऽङ्ग ।
यद्भौतिकं सर्वमिदं तथैव तद्भूतमात्रं न ततोऽपि भिन्नम् ॥६८६॥
तच्चापि पञ्चीकृतभूतजातं शब्दादिभिः स्वस्वगुणैश्च सार्धम् ।
वपूंषि सूक्ष्माणि च सर्वमेतद्भवत्यपञ्चीकृतभूतमात्रम् ॥६८७॥
तदप्यपञ्चीकृतभूतजातं रजस्तमःसत्त्वगुणैश्च सार्धम् ।
अव्यक्तमात्रं भवति स्वरूपतः साभासमव्यक्तमिदं स्वयं च ॥६८८॥
आधारभूतं यदखण्डमाद्यं शुद्धं परं ब्रह्म सदैकरूपम् ।
सन्मात्रमेवास्त्यथ नो विकल्पः सतः परं केवलमेव वस्तु ॥६८९॥
एकश्चन्द्रः सद्वितीयो यथा स्याद् दृष्टेर्दोषादेव पुंसस्तथैकम् ।
ब्रह्मास्त्येतद्बुद्धिदोषेण नाना दोषे नष्टे भाति वस्त्वेकमेव ॥६९०॥
रज्जोः स्वरूपाधिगमेन सर्पधी रज्ज्वां विलीना तु यथा तथैव ।
ब्रह्मावगत्या तु जगत्प्रतीतिस्तत्रैव लीना तु सह भ्रमेण ॥६९१॥
भ्रान्त्योदितद्वैतमतिप्रशान्त्या सदैकमेवास्ति सदाद्वितीयम् ।
ततो विजातीयकृतोऽत्र भेदो न विद्यते ब्रह्मणि निर्विकल्पे ॥६९२॥
यदास्त्युपाधिस्तदभिन्न आत्मा तदा सजातीय इवावभाति ।
स्वप्नार्थवत्तस्य मृषात्मकत्वात्तदप्रतीतौ स्वयमेष आत्मा ।
ब्रह्मैक्यतामेति पृथङ् न भाति ततः सजातीयकृतो न भेदः ॥६९३॥
घटाभावे घटाकाशो महाकाशो यथा तथा ।
उपाध्यभावे त्वात्मैष स्वयं ब्रह्मैव केवलम् ॥६९४॥
पूर्ण एव सदाकाशो घटे सत्यप्यसत्यपि ।
नित्यपूर्णस्य नभसो विच्छेदः केन सिध्यति ॥६९५॥
अच्छिन्नश्छिन्नवद्भाति पामराणां घटादिना ।
ग्रामक्षेत्राद्यवधिभिर्भिन्नेव वसुधा यथा ॥६९६॥
तथैव परमं ब्रह्म महतां च महत्तमम् ।
परिच्छिन्नमिवाभाति भ्रान्त्या कल्पितवस्तुना ॥६९७॥
तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तवः ।
अत एव मुहुः श्रुत्याप्येकत्वं प्रतिपाद्यते ॥६९८॥
ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये ।
प्रत्यक्षादिविरोधेन वाच्ययोर्नोपपद्यते ।
तत्त्वम्पदार्थयोरैक्यं लक्ष्ययोरेव सिध्यति ॥६९९॥
शिष्य उवाच ।
स्यात्तत्त्वम्पदयोः स्वामिन्नर्थः कतिविधो मतः ।
पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥७००॥
वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते ।
लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥७०१॥
एकत्वकथने का वा लक्षणात्रोरीकृता ।
एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥७०२॥