सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — आत्मस्वरूपम् — चित्स्वरूपम्
मुखपृष्ठम् · ⬆ आत्मस्वरूपम् · ← · →
चित्स्वरूपम्¶
जडप्रकाशकः सूर्यः प्रकाशात्मैव नो जडः ।
बुद्ध्यादिभासकस्तस्माच्चित्स्वरूपस्तथा मतः ॥६१८॥
कुड्यादेस्तु जडस्य नैव घटते भानं स्वतः सर्वदा सूर्यादिप्रभया विना क्वचिदपि प्रत्यक्षमेतत्तथा ।
बुद्ध्यादेरपि न स्वतोऽस्त्यणुरपि स्फूर्तिर्विनैवात्मना सोऽयं केवलचिन्मयश्श्रुतिमतो भानुर्यथा रुक्मयः ॥६१९॥
स्वभासने वान्यपदार्थभासने नार्कः प्रकाशान्तरमीषदिच्छति ।
स्वबोधने वाप्यहमादिबोधने तथैव चिद्धातुरयं परात्मा ॥६२०॥
अन्यप्रकाशं न किमप्यपेक्ष्य यतोऽयमाभाति निजात्मनैव ।
ततः स्वयंज्योतिरयं चिदात्मा न ह्यात्मभाने परदीप्त्यपेक्षा ॥६२१॥
यं न प्रकाशयति किञ्चिदिनोऽपि चन्द्रः नो विद्युतः किमुत वह्निरयं मिताभः ।
यं भान्तमेतमनुभाति जगत्समस्तं सोऽयं स्वयं स्फुरति सर्वदशासु चात्मा ॥६२२॥