सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — आत्मस्वरूपम् — शाश्वतलक्षणम्
शाश्वतलक्षणम्¶
अनुस्यूतात्मनः सत्ता जाग्रत्स्वप्नसुषुप्तिषु ।
अहमस्मीत्यतो नित्यो भवत्यात्मायमव्ययः ॥६१२॥
सर्वदाप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते ।
कदापि नासं नेत्यस्मादात्मनो नित्यता मता ॥६१३॥
आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखास्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि ।
गङ्गाभङ्गपरम्परासु जलवत्सत्तानुवृत्तात्मनस्तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ॥६१४॥
प्रतिपदमहमादयो विभिन्नाः क्षणपरिणामितया विकारिणस्ते ।
न परिणतिरमुष्य निष्कलत्वादयमविकार्यत एव नित्य आत्मा ॥६१५॥
यः स्वप्नमद्राक्षमहं सुखं योऽस्वाप्सं स एवास्म्यथ जागरूकः ।
इत्येवमच्छिन्नतयानुभूयते सत्तात्मनो नास्ति हि संशयोऽत्र ॥६१६॥
श्रुत्युक्ताः षोडशकलाश्चिदाभासस्य नात्मनः ।
निष्कलत्वान्नास्य लयस्तस्मान्नित्यत्वमात्मनः ॥६१७॥