सामग्रीं त्यजन्तु

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — साधनचतुष्टयम् — तितिक्षा

तितिक्षा

आध्यात्मिकादि यद्दुःखं प्राप्तं प्रारब्धवेगतः ।
अचिन्तया तत्सहनं तितिक्षेति निगद्यते ॥१३७॥

रक्षा तितिक्षासदृशी मुमुक्षोर्न विद्यतेऽसौ पविना न भिद्यते ।
यामेव धीराः कवचीव विघ्नान्सर्वांस्तृणीकृत्य जयन्ति मायाम् ॥१३८॥

क्षमावतामेव हि योगसिद्धिः स्वाराज्यलक्ष्मीसुखभोगसिद्धिः ।
क्षमाविहीना निपतन्ति विघ्नैर्वातैर्हताः पर्णचया इव द्रुमात् ॥१३९॥

तितिक्षया तपोदानं यज्ञस्तीर्थं व्रतं श्रुतम् ।
भूतिः स्वर्गोऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥१४०॥

ब्रह्मचर्यमहिंसा च साधूनामप्यगर्हणम् ।
पराक्षेपादिसहनं तितिक्षोरेव सिध्यति ॥१४१॥

साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् ।
यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥१४२॥

तितिक्षोरेव विघ्नेभ्यस्त्वनिवर्तितचेतसः ।
सिध्यन्ति सिद्धयः सर्वा अणिमाद्याः समृद्धयः ॥१४३॥

तस्मान्मुमुक्षोरधिका तितिक्षा सम्पादनीयेप्सितकार्यसिद्ध्यै ।
तीव्रा मुमुक्षा च महत्युपेक्षा चोभे तितिक्षासहकारिकारणम् ॥१४४॥

तत्तत्कालसमागतामयततेः शान्त्यै प्रवृत्तो यदि स्यात्तत्तत्परिहारकौषधरतस्तच्चिन्तने तत्परः ।
तद्भिक्षुः श्रवणादिधर्मरहितो भूत्वा मृतश्चेत्ततः किं सिद्धं फलमाप्नुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥१४५॥

योगमभ्यस्यतो भिक्षोर्योगाच्चलितचेतसः ।
प्राप्य पुण्यकृतां लोकानित्यादि प्राह केशवः ॥१४६॥

न तु कृत्वैव संन्यासं तूष्णीमेव मृतस्य हि ।
पुण्यलोकगतिं ब्रूते भगवान्न्यासमात्रतः ॥१४७॥

न च संन्यसनादेव सिद्धिं समधिगच्छति ।
इत्यनुष्ठेयसन्त्यागात्सिद्ध्यभावमुवाच च ॥१४८॥

तस्मात्तितिक्षया सोढ्वा तत्तद्दुःखमुपागतम् ।
कुर्याच्छक्त्यनुरूपेण श्रवणादि शनैः शनैः ॥१४९॥

प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः ।
प्राप्तदुःखासहिष्णुत्वे न किञ्चिदपि दृश्यते ॥१५०॥