सामग्रीं त्यजन्तु

सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः — साधनचतुष्टयम् — दमः

दमः

ब्रह्मचर्यादिभिर्धर्मैर्बुद्धेर्दोषनिवृत्तये ।
दण्डनं दम इत्याहुर्दमशब्दार्थकोविदाः ॥१२८॥

तत्तद्वृत्तिनिरोधेन बाह्येन्द्रियविनिग्रहः ।
योगिनो दम इत्याहुर्मनसः शान्तिसाधनम् ॥१२९॥

इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया ।
अनुधावति तान्येव मनो वायुमिवानलः ॥१३०॥

इन्द्रियेषु निरुद्धेषु त्यक्त्वा वेगं मनः स्वयम् ।
सत्त्वभावमुपादत्ते प्रसादस्तेन जायते ।
प्रसन्ने सति चित्तेऽस्य मुक्तिः सिध्यति नान्यथा ॥१३१॥

मनःप्रसादस्य निदानमेव निरोधनं यत्सकलेन्द्रियाणाम् ।
बाह्येन्द्रिये साधु निरुध्यमाने बाह्यार्थभोगो मनसो वियुज्यते ॥१३२॥

तेन स्वदौष्ट्यं परिमुच्य चित्तं शनैः शनैः शान्तिमुपाददाति ।
चित्तस्य बाह्यार्थविमोक्षमेव मोक्षं विदुर्मोक्षणलक्षणज्ञाः ॥१३३॥

दमं विना साधु मनःप्रसादहेतुं न विद्मः सुकरं मुमुक्षोः ।
दमेन चित्तं निजदोषजातं विसृज्य शान्तिं समुपैति शीघ्रम् ॥१३४॥

प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादो यस्याप्यस्य प्रतिनियतदिग्देशकालाद्यवेक्ष्य ।
सम्यग्दृष्ट्या क्वचिदपि तया नो दमो हन्यते तत् कुर्याद्धीमान्दममनलसश्चित्तशान्त्यै प्रयत्नात् ॥१३५॥

सर्वेन्द्रियाणां गतिनिग्रहेण भोग्येषु दोषाद्यवमर्शनेन ।
ईशप्रसादाच्च गुरोः प्रसादाच्छान्तिं समायात्यचिरेण चित्तम् ॥१३६॥