विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ५१७ – षट्च्छास्त्राणां परस्परविरोधः
मुखपृष्ठम् · ⬆ सप्तमस्तरङ्गः · ← · →
आवर्तः ५१७ – षट्च्छास्त्राणां परस्परविरोधः¶
(१) साङ्ख्य, (२) पातञ्जल, (३) न्याय, (४) वैशेषिक, (५) पूर्वमीमांसा, (६) उत्तरमीमांसारूपाणि षट्च्छास्त्राण्यपि परस्परविरुद्धान्येव। यतः —
(१) साङ्ख्यमते१ ईश्वरो नाभ्युपगम्यते। समाध्यात्मकयोगापेक्षां विनैव
केवलप्रकृतिपुरुषविवेकादेव मोक्षो भवतीत्यभ्युपगम्यते।
(२) पातञ्जले मते ईश्वरोऽभ्युपगम्यते। मोक्षश्च समाधिना। तस्मात् साङ्ख्यपातञ्जलमतयोरन्योन्यं विरोधः।
(३-४) न्यायमते चत्वारि२ प्रमाणानि। वैशेषिकमते द्वे३ प्रमाणे।
इत्यन्योन्यं विरोधः। एवमन्येऽपि विरोधा वर्तन्ते। जिज्ञासूनामनपेक्षितत्वात्
तेऽत्र न लिख्यन्ते।
(५) पूर्वमीमांसकमते ईश्वरः मोक्षरूपं नित्यसुखं च नाभ्युपगम्यते। किन्तु कर्मजन्यं विषयसुखमेव पुरुषार्थ इत्युच्यते।
(६) उत्तरमीमांसायां तु ईश्वरो मोक्षश्चाङ्गीक्रियते। विषयसुखं न पुरुषार्थः। उत्तरमीमांसाभिमतं मतमेवास्मिन्ग्रन्थे स्फुटतरमुक्तम्। एवं सर्वमपि शास्त्रमनेन विरुध्यते। शास्त्रान्तरेषु भेदवादो निरूप्यते। अस्मिंस्तु शास्त्रे भेदखण्डनपूर्वकमभेद एव प्रतिपाद्यते। इत्थं सकलमपि शास्त्रं परस्परविरुद्धमेव।
ग्रन्थकारटिप्पणी
१. निरीश्वरसाङ्ख्यमते। तट्टीका (३५५) आवर्ते।
२. प्रत्यक्षम्, अनुमानम्, शब्दः, उपमानम्। तद्विवरणम् (२०४-२०७) आवर्ते।
३. प्रत्यक्षम् अनुमानम्। (२०४-२०५) आवर्ते।