विचारसागरः — सप्तमस्तरङ्गः — आवर्तः ५१६ – पूर्वोक्तमतानुवादः स्मार्तमतं च
मुखपृष्ठम् · ⬆ सप्तमस्तरङ्गः · ← · →
आवर्तः ५१६ – पूर्वोक्तमतानुवादः स्मार्तमतं च¶
उक्तानामुपासकानां यथा
परस्परविरुद्धाभिधायकत्वम्,
एवमेव
अन्येषाम्१ अपि बहूनां पण्डितानां स्वस्वबुद्ध्यनुसारतो विरुद्धाभिधायित्वमेव।
यद्यपि स्मार्ताः पण्डिताः पूर्वोक्तासु पञ्चस्वपि देवतासु भेदबुद्धिं न कुर्वन्ति।
तथापि तन्मतमपि एतन्मतविरोध्येव। वैष्णवस्य त्विदं मतम् 'न हि
विष्णुतुल्यमस्ति देवतान्तरम्। इतरे सर्वेऽपि देवा विष्णुभक्ता एव। विष्णोः
श्रीरामकृष्णनारायणादीनि नामानि यस्त्वितरदेवतानामभिः समतया जानाति,
स नामापराधी२ स्यात्। रामकृष्णादिनामोच्चारणफलं च नाप्नोति' इति। एवं
शिवमतेऽपि 'नैवास्ति शिवतुल्यं देवतान्तरम्। शिवनामोच्चारणफलं विष्ण्वादिनामोच्चारणेन नैव लभ्यते' इति। इत्थं सर्वमतेष्वपि स्वस्वोपास्यदेवतातुल्यं
नास्ति देवतान्तरम्। स्मार्ते तु मते सर्वेऽपि देवाः समाः। तस्मात् स्मार्तमपि मतं पूर्वोक्तपञ्चमतविरुद्धमेव।
ग्रन्थकारटिप्पणी
१. योगिनैयायिकहिरण्यगर्भीयविराडुपासकप्रजाकामादिमताभिमानिनाम्।
२. सन्निन्दासति नामवैभवकथा श्रीशेशयोर्भेदधीः
अश्रद्धा श्रुतिशास्त्रदेशिकगिरां नाम्न्यर्थवादभ्रमः।
नामास्तीति निषिद्धवृत्तिविहितत्यागौ च धर्मान्तरैः
साम्यं नामनि शङ्करस्य च हरेर्नामापराधा दश॥
इत्युक्तदशापराधेषु एकोऽपि यः कश्चिदपराधो यस्यास्ति स नामापराधी। एवं दशापराधहीन एकोऽपि दुर्लभः। दशापराधान् विनैव यदि नाम कश्चिन्नामसङ्कीर्तनं कुर्यात् स कोटियज्ञफलं लभेत्।