सामग्रीं त्यजन्तु

विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ४४५ – महावाक्ये वाच्यार्थविरोधाल्लक्षणाया आश्रयणम्

आवर्तः ४४५ – महावाक्ये वाच्यार्थविरोधाल्लक्षणाया आश्रयणम्

सामवेदीयच्छान्दोग्योपनिषदि षष्ठाध्याये उद्दालकमुनिः स्वपुत्रं श्वेतकेतुं प्रति जगत्कारणीभूतमीश्वरं प्रदर्श्य३ 'तत्त्वमसि' इत्युपदिदेश। अयं चास्य वाच्यार्थः 'तत्' जगदुत्पत्तिकर्ता सर्वशक्तिमान् सर्वज्ञत्वादिधर्मविशिष्ट ईश्वरः। 'त्वम्' अल्पशक्तिमान् किञ्चिज्ज्ञत्वादिधर्मविशिष्टो जीवः। 'असि' वर्तसे। इह 'तत्त्वमसि' इत्युक्त्या जीवेश्वरयोः एकत्वम्४ वाच्यार्थः प्रतीयते। तच्च नोपपद्यते। तथा हि यः सर्वशक्तिमान् सोऽल्पशक्तिमान्, यः सर्वज्ञः स किञ्चिज्ज्ञः, यो व्यापकः स परिच्छिन्नः, यः स्वतन्त्रः स कर्माधीनः यः परोक्षः स प्रत्यक्षः, यः स्वाधीनमायः सोऽविद्यामोहितः, इत्येवं विरुद्धधर्मवतोरेकत्वोक्तिः 'अग्निः शीतलः' इतिवत् स्यात्। तस्माद्वाच्यार्थे विरोधसंभवात् लक्षणावृत्त्या लक्ष्यार्थमत्र विजानीहि। महावाक्ये, जहल्लक्षणाया अजहल्लक्षणायाश्चायुक्तत्वाद्भागत्यागलक्षणा बोध्या। भागत्यागलक्षणाश्रयेण विरोधः परिहृतो भवेत्।

ग्रन्थकारटिप्पणी

३. उद्दालकः स्वपुत्राय श्वेतकेतवे 'तत्त्वमसि' इति महावाक्यं नवकृत्व उपदिदेश।

४. 'तत्त्वमसि' इत्यत्र तत्त्वंपदयोः सामानाधिकरण्यसंबन्धबलात् तत्त्वंपदवाच्ययोरेकत्वं विवृतं भवति।