विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ४४४ – त्वंपदवाच्यार्थनिरूपणम्
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ४४४ – त्वंपदवाच्यार्थनिरूपणम्¶
ईश्वरधर्मविपरीतधर्मा यत्र वर्तन्ते तादृशजीवचेतनस्त्वंपदवाच्यार्थः।
अयमभिप्रायः –
जीवोऽल्पशक्तिमान्, अल्पज्ञः, परिच्छिन्नः, अनीशः, कर्माधीनः, अविद्यामोहितः,
बन्धमोक्षभाक्, नित्यापरोक्षः। स्वस्वरूपस्य कस्यापि परोक्षत्वाभावात् नित्यापरोक्ष एव जीवः। ईश्वरस्वरूपं तु यद्यपीश्वरस्य प्रत्यक्षं तथापि जीवानां न
प्रत्यक्षम्। अत एवेश्वरः परोक्ष इत्युच्यते। जीवस्वरूपं तु जीवस्येश्वरस्य चेत्युभयोः प्रत्यक्षम्। अत एव जीवः प्रत्यक्ष१ इत्युच्यते। पूर्वोक्ताल्पशक्तिमत्त्वादिधर्मविशिष्टो जीवचेतनः त्वंपदवाच्यः।
ग्रन्थकारटिप्पणी
१. जीवः स्वस्य निजं स्वरूपमहंपदलक्ष्यार्थं कूटस्थं यद्यपि न जानाति, तथाप्यहंपदवाच्यार्थभूतमन्तःकरणविशिष्टचैतन्यम्, अथवा स्थूलसूक्ष्मसङ्घातविशिष्टचैतन्यमहमिति जानाति। अतो जीवस्य विवेकात्प्रागपि विशिष्टात्मरूपस्वस्वरूपस्य प्रत्यक्षज्ञानं भवति।