विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ४२६ – वैयाकरणरीत्या शक्तिलक्षणं तावत्पदनिष्ठार्थयोग्यता
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ४२६ – वैयाकरणरीत्या शक्तिलक्षणं तावत्पदनिष्ठार्थयोग्यता३¶
ग्रन्थकारटिप्पणी
३. इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा।
अनादिरर्थैः शब्दानां संबन्धो योग्यता तथा॥
(इति वैयाकरणभूषणसारे ३६ कारिका) इन्द्रियाणां स्वविषयेषु चाक्षुषादिषु घटादिषु यथानादिर्योग्यता तदीयचाक्षुषादिकारणता तथा शब्दानामप्यर्थैः सह तद्बोधकतैव योग्यता। सैव शक्तिरित्यर्थः। इति तद्विवरणम्। मञ्जूषायां तु वाच्यवाचकभावकारणीभूतपदार्थयोस्तादात्म्यं शक्तिरित्युक्तम्।
पदनिष्ठा अर्थयोग्यता नाम पदनिष्ठपदार्थबोधहेतुत्वमेव। घटपदे कलशरूपार्थज्ञानहेतुत्वरूपयोग्यतास्ति। सा योग्यतैव शक्तिः। अयमर्थो हरिकारिकां प्रमाणीकृत्य वैयाकरणभूषणाख्यग्रन्थे निरूपितः।