सामग्रीं त्यजन्तु

विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ४२५ – ईश्वरेच्छैव पदशक्तिरिति नैयायिकोक्तं न साधु

आवर्तः ४२५ – ईश्वरेच्छैव पदशक्तिरिति नैयायिकोक्तं न साधु

ईश्वरेच्छा१ तावदीश्वरनिष्ठो धर्मः। न तु पदधर्मः। ईश्वरेच्छायाः पदनिष्ठत्वासंभवात् पदशक्तिरिति वक्तुं न शक्यते। शक्तेः पदधर्मत्वे हि पदशक्तिरिति वक्तुं शक्यते। अतः पदनिष्ठार्थावबोधनसामर्थ्यमेव पदशक्तिः स्यात्।

ग्रन्थकारटिप्पणी

१. कुम्भकारस्य घटचिकीर्षा यथा कुम्भकाराश्रयत्वात् कुम्भकारधर्मस्तथा 'अयं शब्द इममर्थमभिव्यञ्जयतु' इतीश्वरेच्छेश्वराश्रयत्वादीश्वरस्यैव धर्मः स्यात् न तु पदस्य। अत ईश्वरेच्छा ईश्वरस्यैव शक्तिः स्यात् न तु पदस्य।