विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३९६ – समुत्पन्नज्ञानसंरक्षणार्थमपि कर्मोपासने अपेक्षिते
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ३९६ – समुत्पन्नज्ञानसंरक्षणार्थमपि कर्मोपासने अपेक्षिते¶
अथवा कर्मोपासने समुत्पन्नं ज्ञानं संरक्षितुं हेतू भवतः। ज्ञानी कर्मोपासने त्यजति चेत्तदा यथा जलसंबन्धाभावे प्ररूढोऽपि वृक्षः शुष्यति, तथा ज्ञानिन उत्पन्नमपि ज्ञानं विनश्येत्। तथा हि, शुद्धेऽन्तःकरणे ज्ञानमुत्पद्यते। शुभकर्मणामकरणे ज्ञानिनः पापं भवेत्। उपासनाकरणे ज्ञानिनश्चित्तं पुनरपि चाञ्चल्यं भजेत। तस्मिन्नशुद्धे चञ्चले चान्तःकरणे, शुष्कभूमावुत्पन्नवृक्षवत् ज्ञानं नावस्थितं भवेत्।
अपरो दृष्टान्तः – यथा परिमार्जनप्रोक्षणादिसंस्कारैः शुद्धिमापादिते स्थाने वेदाध्ययनशाली ब्रह्मचारी निवसति। येन केनापि कारणेन तस्मिन् स्थाने अशुद्धिमापादिते स तत्र न तिष्ठति, किन्तु तत् स्थानं परित्यजति। तथा कर्मोपासनादित्यागेनाशुद्धिं चाञ्चल्यं च प्राप्तेऽन्तःकरणे ज्ञानं न तिष्ठेत्। तस्मात् कर्मोपासने ज्ञानसंरक्षणहेतू भवतः।
तथा च कर्म, उपासनम्, ज्ञानं चेति त्रीणि मोक्षकारणानीत्यङ्गीकारे कर्मोपासने ज्ञानसंरक्षणहेतुभूते केवलं ज्ञानं मोक्षस्य हेतुरित्यङ्गीकारे च ज्ञानिना कर्मोपासने अनुष्ठेये एव। अयं समुच्चयवाद इत्युच्यते।