सामग्रीं त्यजन्तु

विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३९५ – कर्मोपासने परम्परया मोक्षस्यापि साधने इत्यन्ये

आवर्तः ३९५ – कर्मोपासने परम्परया मोक्षस्यापि साधने इत्यन्ये

यथा कर्मोपासने ज्ञानसाधनत्वेनाङ्गीकृते तथा ज्ञानफलमोक्षसाधने इत्यप्यङ्गीकर्तुमुचितम्। अत्र दृष्टान्तः यथा जलस्य सेचनं वृक्षस्य उत्पत्तिं प्रति वृक्षफलस्योत्पत्तिं प्रति च साधनं तथा कर्मोपासने ज्ञानोत्पत्तिं प्रति ज्ञानफलमोक्षस्योत्पत्तिं प्रति च साधने भवतः। न च वने स्थितस्य वृक्षस्य फलं जलसेचनं विनाप्युत्पद्यते इति वाच्यम्। तत्रापि वृक्षस्य मूले भूमिस्थजलेन संबन्धोऽस्ति। तेन जलेन वृक्षस्य फलमुत्पद्यते। जलसंबन्धाभावे वृक्षः शुष्येत्। फलमपि नोत्पद्येत। तस्मात्कर्मोपासने ज्ञानस्य ज्ञानफलमोक्षस्य च साधने।

एवं च कर्म, उपासनम्, ज्ञानं चेति त्रीण्यपि मोक्षस्य साधनानि। तस्माज्ज्ञान्यपि कर्माण्यनुतिष्ठेदेव।