विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३९० – पञ्चविधमपि कर्मफलं मुमुक्षोरनपेक्षितम्
मुखपृष्ठम् · ⬆ षष्ठस्तरङ्गः · ← · →
आवर्तः ३९० – पञ्चविधमपि कर्मफलं मुमुक्षोरनपेक्षितम्¶
कर्म कुर्वतस्तेन कर्मणा उत्पत्तिः, आप्तिः, विकारः, संस्कारः, नाशश्चेति पञ्चविधं फलं जायते। उत्पत्तिः = पदार्थस्योत्पत्तिः। आप्तिः = पदार्थस्य प्राप्तिः। विकारः = पदार्थस्य पूर्वरूपपरित्यागेन रूपान्तरप्राप्तिः। संस्कारः = पदार्थगतमलनिवृत्तिरूपः, पदार्थे गुणाधानरूपश्चेति द्विविधः। नाशः = पदार्थस्य ध्वंसः, इति कर्मजन्यफलस्य पञ्च प्रकारा भवन्ति। एषां मध्ये किमपि फलं मुमुक्षुविषये न घटते। अतश्च मुमुक्षुर्ज्ञानसाधनश्रवणादावेव प्रवर्तते न कर्मणि।
यथा कुलालस्य कर्मणा तस्य घटोत्पत्तिरूपं फलं सिद्ध्यति तथा मुमुक्षोः
कर्मणा मोक्षोत्पत्तिरूपं फलं न सिद्ध्यति। सर्वानर्थनिवृत्तिः परमानन्दप्राप्तिश्च हि
मोक्षः। यथा रज्जौ सर्पनिवृत्तिर्नित्यसिद्धा तथात्मनि दुःखनिवृत्तिरपि नित्यसिद्धा१। आत्मा परमानन्दस्वरूपः। तस्मात्परमानन्दप्राप्तिरपि नित्यसिद्धा२।
इत्थं स्वभावसिद्धस्य मोक्षस्य कर्मणोत्पत्तिर्न युज्यते। यद्वस्तु प्रागसिद्धं तद्वस्तु
कर्मणोत्पद्येत। प्रागेव सिद्धस्य वस्तुन उत्पत्तिर्न कर्मणा भवेत्।
ग्रन्थकारटिप्पणी
१. यथा रज्जौ व्यावहारिकसत्ताकसर्पस्याभावरूपा सर्पस्य निवृत्तिर्नित्यसिद्धा तथात्मनि परमार्थसत्ताककार्यसहिताज्ञानरूपानर्थस्यात्यन्ताभावरूपा तस्य निवृत्तिरपि नित्यसिद्धा।
२. यथा विस्मृतकण्ठचामीकरस्य प्राप्तिर्यथा वा गृहे गूढनिहितनिधेः प्राप्तिर्नित्यसिद्धा तथा निजस्वरूपस्य परमानन्दस्य प्राप्तिः सर्वेषां नित्यसिद्धा।