सामग्रीं त्यजन्तु

विचारसागरः — षष्ठस्तरङ्गः — आवर्तः ३८९ – कर्मोपासनयोः फलमनित्यं, ताभ्यां नित्यो मोक्षो न सिद्ध्यति

आवर्तः ३८९ – कर्मोपासनयोः फलमनित्यं, ताभ्यां नित्यो मोक्षो न सिद्ध्यति

(१) मोक्षो यदि कर्मणः फलं स्यात् तदा मोक्षोऽनित्यो भवेत्। तथा हि, कृष्यादिकर्मणां फलमन्नादिकमनित्यं भवति। यज्ञादिकर्मणां फलं स्वर्गादिकमप्यनित्यम्। "तद्यथा कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते" (छा० ८।१।६) "परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन" (मु० १।२।१२) इत्यादिश्रुतिभिः कर्मफलस्यानित्यत्वं वर्णितम्। मोक्षस्य कर्मफलत्वाङ्गीकारे सोऽनित्यो भवेत्। तस्मान्मोक्षो न१ कर्मणः फलम्।

मोक्ष उपासनफलमित्यङ्गीकारेऽपि सोऽनित्य एव स्यात्। उपासनमपि मानसं कर्मैव। कर्मफलस्यानित्यत्वनियमात् मोक्ष उपासनरूपकर्मणोऽपि न फलम्।

ग्रन्थकारटिप्पणी

१. भावनाजं फलं यत् स्यात् यच्च स्यात्कर्मणः फलम्।
न तत् स्थास्न्विति मन्तव्यं पण्यस्त्रीगमनं यथा॥ बृ. वा.॥

भावनाजं फलं यत् स्यात् यच्च स्यात्कर्मणः फलम्।
न तत् स्थास्न्विति मन्तव्यं द्रविडेष्विव सङ्गतम्॥ नै. सि. ३.९३॥

अविरोधितया कर्म नाविद्यां विनिवर्तयेत्।
विद्याविद्यां निहन्त्येव तेजस्तिमिरसङ्घवत्॥ आ. बो. ३॥