विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः २५५ – मायास्वरूपम्
मुखपृष्ठम् · ⬆ पञ्चमस्तरङ्गः · ← · →
आवर्तः २५५ – मायास्वरूपम्¶
जीवेश्वरादिविभागशून्यशुद्धचैतन्याश्रिता माया। इयमुत्पत्तिरहितत्वादनादिः। तस्या उत्पत्त्यङ्गीकारे पुत्रात् पितुरुत्पत्तिकथनस्येव मायाकार्यात् प्रपञ्चान्मायोत्पत्तिकथनमसङ्गतं भवेत्। तस्माच्चैतन्यान्मायोत्पत्तिर्वक्तव्या। तथा सति जीवत्वेश्वरत्वयोर्मायाकार्यत्वान्न जीवचेतनान्न वेश्वरचेतनान्मायोत्पत्तिर्भवेत्। जीवेश्वरसिद्धौ तत्सकाशान्मायोत्पत्तिर्मायासिद्धौ जीवेश्वरसिद्धिरित्यन्योन्याश्रयप्रसङ्गात्। शुद्धचैतन्यं त्वसङ्गमक्रियमविकारि च। तस्मान्मायोत्पत्त्यङ्गीकारे शुद्धचैतन्यं विकारि भवेत्। किञ्च यदि शुद्धचैतन्यान्मायोत्पत्तिरुच्यते तर्हि मोक्षदशायां शुद्धचैतन्यस्य सत्त्वात् पुनर्मायोत्पत्तिप्रसङ्गः स्यात्। मोक्षसाधनवैयर्थ्यं च स्यात्। तस्मान्मायोत्पत्तिरहिता; अत एव च अनादिः। सा चैकैव। ज्ञाननाश्यत्वात् सान्ता च।
सेयं माया सदसद्विलक्षणा। त्रिकालाबाध्यं यत्तत् सद् इत्युच्यते। त्रिकालाबाध्यत्वाच्चैतन्यमेव सत्। माया तु ज्ञानबाध्यत्वात् सद्विलक्षणा। कालत्रयेऽप्यप्रतीयमानं शशशृङ्गवन्ध्यासुताकाशपद्मादिकम् असद् इत्युच्यते।
ज्ञानात् पूर्वं माया तत्कार्यं च प्रतीयते। तथा हि, जाग्रत्काले 'अहमज्ञो ब्रह्म न जानामि' इत्यनुभूयते माया। स्वप्नकाले प्रतीयमानसर्वपदार्थानामुपादानकारणतया मायैव विभाति। सुप्तोत्थितस्य 'सुखमहमस्वाप्सं न किञ्चिदवेदिषम्' इति परामर्शः (स्मृतिः) भवति। सा च स्मृतिरननुभूतेऽर्थे न संभवेत्। तस्मात् सुषुप्तावज्ञानानुभवोऽस्ति। अज्ञानं मायेति चैकमेव वस्तूच्यते। इत्थमवस्थात्रयेऽपि माया प्रतीयते। अतः सा असद्विलक्षणा। सदसद्विलक्षणमायाकार्यं जगदपि सदसद्विलक्षणमेव। अद्वैतमते सदसद्विलक्षणमेव वस्तु मिथ्येति, अनिर्वचनीयमिति च कथ्यते। तस्मान्मायातत्कार्याभ्यां न द्वैतं सिद्ध्येत्। मायातत्कार्ययोः सदसद्विलक्षणत्वान्मिथ्यात्वमेव। न हि मिथ्यापदार्थेन द्वैतसिद्धिर्भवति, स्वप्ने दृष्टपदार्थेन यथा न द्वैतसिद्धिस्तथा मिथ्यामायातत्कार्याभ्यां न ब्रह्मणः सद्वितीयत्वसिद्धिः।