सामग्रीं त्यजन्तु

विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः २५४ – श्रुत्युक्तक्रमेण जगदुत्पत्तिकथने सूत्रकारभाष्यकृतोरभिप्रायः

आवर्तः २५४ – श्रुत्युक्तक्रमेण जगदुत्पत्तिकथने सूत्रकारभाष्यकृतोरभिप्रायः

यदपि सूत्रभाष्यकृतौ१ द्वितीयाध्याये जगदुत्पत्तिप्रतिपादकश्रुतिवाक्यानां परस्परविरोधं परिहरन्तौ तैत्तिरीयोक्तसृष्टिक्रम एव सर्वोपनिषदामर्थ इति वर्णितवन्तौ, तन्मन्दाधिकारिसमाधानार्थमिति ज्ञेयम्। "पूर्वं वर्णितमुत्पत्तिवाक्यानां वस्तुभूतमभिप्रायमवगन्तुमसमर्था मन्दजिज्ञासवः परस्परविरुद्धानि वाक्यानि दृष्ट्वा भ्रान्ता मा भूव"न्निति, सूत्रभाष्यकृतौ सर्वोपनिषदामाकाशादिक्रमेणैव जगदुत्पत्तौ तात्पर्यमिति प्रदर्शयामासतुः।

ग्रन्थकारटिप्पणी

१. सूत्रशब्देन व्यासकृतब्रह्मसूत्रम्, भाष्यशब्देन श्रीशङ्करभगवत्पादभाष्यं च ग्राह्यम्।

किञ्च वेदान्तविचारेण यथार्थज्ञानमलभमानस्य लयचिन्तनार्थमपि श्रुतीनां वैमत्यपरिहारेण विवक्षितो जगदुत्पत्तिक्रमः सूत्रभाष्यकृद्भ्यां प्रदर्शितः।

येन क्रमेणोत्पत्तिस्तद्विपरीतक्रमेण जगतो लयश्चिन्तनीयः। तथा लयचिन्तनेनाद्वितीये ब्रह्मणि बुद्धिः स्थिरा भवेत्। सोऽयं लयचिन्तनप्रकारः वार्तिककारैः सुरेश्वराचार्यैः पञ्चीकरणाख्यग्रन्थे वर्णितः। अस्य ग्रन्थस्य उत्तमाधिकारिविषयत्वाद्यद्यपि१ जगदुत्पत्तिलयक्रमवर्णनस्य नात्रावसरस्तथापि सागररूपत्वादस्य ग्रन्थस्य मन्दानुग्रहाय सङ्क्षेपतः स उच्यते। असङ्गत्वादक्रियत्वाच्च शुद्धब्रह्मणः सकाशाज्जगदुत्पत्त्यादिकं न सङ्गच्छते। किन्तु मायाविशिष्टशबलब्रह्मणः२ सकाशाज्जगदुत्पद्यते। तस्मान्मायेश्वरयोः स्वरूपं प्रतिपाद्यते।

ग्रन्थकारटिप्पणी

१. दृष्टिसृष्टिवादैकसत्तावादैकजीववादेषु दृढतरसंस्कारवान् उत्तमाधिकारी।

२. जगद्विवर्तोपादानभूतमधिष्ठानं मायोपहितचैतन्यमेव न तु मायाविशिष्टम्। तथापि मायाविशिष्टस्योपादानत्वं ततो जगदुत्पत्तिश्चाविवेकिदृष्ट्योच्यते। विवेकिदृष्ट्या तु जगतः परिणाम्युपादानं वा विवर्तोपादानं वा न मायाविशिष्टचैतन्यम्। किन्तु जगतः परिणाम्युपादानं केवला माया। विवर्तोपादानं मायोपहितचैतन्यम्। अविवेकिनस्तूभयविधमुपादानत्वं मायाविशिष्टचैतन्ये भ्रान्त्या प्रतीयते। तस्माच्छास्त्रकारैरविवेकिनां दृष्टिरनूद्यते केवलम्, न तु तात्पर्येणोच्यते इति ज्ञेयम्।