सामग्रीं त्यजन्तु

विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः २५० – शुक्तिरजतादेर्ब्रह्मज्ञानमन्तरा बाध्यत्वे, संसारदुःखस्य ब्रह्मज्ञानेनैव

आवर्तः २५० – शुक्तिरजतादेर्ब्रह्मज्ञानमन्तरा बाध्यत्वे, संसारदुःखस्य ब्रह्मज्ञानेनैव

ननु ब्रह्मभिन्नं निखिलं मिथ्येति पूर्वमुपदिष्टम्। तादृशमिथ्यापदार्थेषु शुक्तिरजतरज्जुसर्पमृगतृष्णिकोदकादयो ब्रह्मज्ञानमन्तरैव बाध्यन्ते, संसारदुःखं तु ब्रह्मज्ञानेनैव बाध्यत इति भेदे को हेतुः। सोऽयं संशयश्छेत्तव्य इति शिष्यो गुरुं पृच्छति।