सामग्रीं त्यजन्तु

विचारसागरः — पञ्चमस्तरङ्गः — आवर्तः २४९ – गुरुवेदान्तादेः संसारदुःखस्य चोभयोरपि व्यावहारिकसत्ताकत्वाद्

आवर्तः २४९ – गुरुवेदान्तादेः संसारदुःखस्य चोभयोरपि व्यावहारिकसत्ताकत्वाद्

इत्थं गुरुवेदान्तादेः संसारदुःखस्य चैकैव व्यावहारिकी सत्ता। ततः समसत्ताकत्वात्तयोः मिथ्यागुरुवेदान्तादिना मिथ्यासंसारदुःखं निवर्त्येतैव। क्षुत्पिपासादिकं तु प्राणधर्मः। प्राणाः तद्धर्माश्च ब्रह्मज्ञानमन्तरा न निवर्तन्ते। अतः पिपासा व्यावहारिकसत्ताका। मरीचिकोदकं तु ब्रह्मज्ञानं विनैव मरुभूमिज्ञानेन बाध्यते। अतो मरीचिकोदकं प्रातिभासिकसत्ताकम्। मरीचिकोदकपिपासयोः समसत्ताकत्वाभावान्न मरीचिकोदकेन पिपासोपशमो भवति। दार्ष्टान्तिके तु बाधकगुरुवेदान्तादेर्बाध्यसंसारदुःखस्य च समाना सत्ता। दृष्टान्ते तु मरीचिकोदकपिपासयोः विषमा सत्ता। तस्माद्दृष्टान्तो विषमो दार्ष्टान्तिकाननुरूपः। विषमत्वम् = भिन्नविषयत्वम्।