विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १७८ – कूटस्थवर्णनम्
मुखपृष्ठम् · ⬆ चतुर्थस्तरङ्गः · ← · →
आवर्तः १७८ – कूटस्थवर्णनम्¶
बुद्धेर्व्यष्ट्यज्ञानस्य२ वा अधिष्ठानभूतचैतन्यस्य कूटस्थ इत्यभिधा।
यन्मते बुद्धिविशिष्टश्चेतनो जीवस्तन्मते बुद्ध्यधिष्ठानचेतनः कूटस्थ इत्युच्यते।
यत्र तु मते व्यष्ट्यज्ञानविशिष्टचेतनो जीव इति कीर्त्यते तन्मते व्यष्ट्यज्ञानाधिष्ठानचेतनः कूटस्थ इति वर्ण्यते।
अत्रायं सिद्धान्तः – जीवत्वापादकं विशेषणं यत् तदधिष्ठानस्य कूटस्थ इति नाम।
अयं कूटस्थ उत्पत्त्यादिरहितः। अस्यायमभिप्रायः – ब्रह्मणो व्यतिरिक्ततया चिदाभासो यथोत्पद्यते, न तथा कूटस्थ उत्पद्यते, किन्तु ब्रह्मरूप एव स भवति। यथा घटाकाशो महाकाशान्न व्यतिरिक्तः, किन्तु महाकाशरूप एव भवति, तद्वत्। अयं च कूटस्थ आत्मपदलक्ष्यार्थः। कूटस्थस्यैव प्रत्यगिति निजस्वरूपमिति, जीवसाक्षीति च व्यपदेशः। कूटस्थो घटाकाशस्थानीयः।
ग्रन्थकारटिप्पणी
२. जीवो बुद्धिप्रतिबिम्ब इति, अविद्याप्रतिबिम्ब इति च वक्ष्यमाणत्वादत्र पक्षद्वयं सूचितम्।