विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १७७ – उपोद्घातः
मुखपृष्ठम् · ⬆ चतुर्थस्तरङ्गः · ← · →
आवर्तः १७७ – उपोद्घातः¶
हे सोम्य। चतुर्विधाकाशलक्षणमुक्तम्।
चतुर्विधचैतन्यलक्षणमप्युच्यमानं१ शृणु। तस्य श्रवणमात्रेण विचारस्य महाफलं
ब्रह्मज्ञानमवाप्येत।
ग्रन्थकारटिप्पणी
१. केषुचिदद्वैतग्रन्थेषु जीव ईशो ब्रह्मेति चित्त्रैविध्यप्रक्रियाश्रिता। अनादिपदार्थषट्कनिरूपणे चैतन्यत्रैविध्यमेवोक्तम्। तत्र कूटस्थपरित्यागान्न कोऽपि दोषः स्यात्। कूटस्थब्रह्मणोर्न नाममात्रभेदादृतेऽन्यः कश्चन भेदोऽस्ति। किञ्च विद्यारण्यमुनिकृतदृग्दृश्यविवेकाख्यग्रन्थे कूटस्थः पारमार्थिकजीवः, जाग्रत्कालिकान्तःकरणप्रतिबिम्बो व्यावहारिकजीवः, स्वप्नदृक् प्रातिभासिकजीव इति च निरूपितम्। अनेन कूटस्थो जीवकोटावन्तर्भावितः।