विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १३० – अज्ञस्य विषयप्रवृत्तौ सत्यां तदीयान्तर्मुखवृत्तौ आत्मानन्दो भाति,
मुखपृष्ठम् · ⬆ चतुर्थस्तरङ्गः · ← · →
आवर्तः १३० – अज्ञस्य विषयप्रवृत्तौ सत्यां तदीयान्तर्मुखवृत्तौ आत्मानन्दो भाति,¶
हे शिष्य। यस्य
बुद्धिरात्मस्वरूपं न जानाति तस्य विषयेच्छा जायते। भोगसाधनानां स्त्रीधनपुत्रादीनामत्र विषयशब्देन ग्रहणम्। विषयेच्छस्य पुंसो बुद्धिश्चञ्चला भवति।
चञ्चलायां बुद्धावात्मस्वरूपानन्दप्रतिबिम्बो न भासते। अभिलषितविषयलाभे
तु क्षणमात्रं बुद्धिः स्थिरीभवति। तदा बुद्धिवृत्तिरन्तर्मुखा भवति। तस्यामन्तर्मुखायां वृत्तावात्मस्वरूपानन्दः प्रतिफलति। तादृशात्मस्वरूपानन्दप्रतिबिम्बं अनुभवितुः१ पुंसो 'विषयेभ्यो ममानन्दोऽजायत' इति भ्रान्तिरुत्पद्यते२।
वस्तुतस्तु नैवास्ति जडे विषये आनन्दलेशोऽपि।
ग्रन्थकारटिप्पणी
१. आत्मा स्वभावत एवानन्दस्वरूपः। मनसो व्याकुलतायां सन्निहितोऽपि पदार्थो यथा न चक्षुर्गोचरो भवति, तथा यावद्रजोगुणसम्पर्काद्बुद्धिश्चञ्चला भवति तावदात्मन आनन्दांशो न बुद्धौ प्रतिभासते। यथा दर्पणे प्रचलति सति तस्मिन्नुपलभ्यमानोऽपि मुखादिप्रतिबिम्बो नैव स्फुटस्तथा रजोगुणसम्पर्काच्चलन्त्यां बुद्धावात्मनः सच्चिदंशयोः प्रतिबिम्बे भासमानेऽपि नानन्दांशप्रतिबिम्बो भासते। इष्टवस्तुलाभे सति तद्विषयकेच्छायाः, रजोगुणहेतुकबुद्धिचाञ्चल्यस्य च निवृत्तौ सत्यां प्राप्तेष्टवस्तुविषयकज्ञानरूपया सात्त्विकवृत्त्या विषयोपहितचैतन्यस्वरूपानन्दो विभाव्यते अथवा इष्टवस्तुलाभमात्रेण तद्विषयकेच्छारूपवृत्तिर्निवर्तते। तेनैव हेतुनान्या काचिदन्तर्मुखा सात्त्विकी वृत्तिरुदेति। तथा अन्तःकरणोपहितात्मानन्दः प्रकाशते। ईदृशान्तर्मुखान्तःकरणवृत्तिप्रतिफलितात्मस्वरूपानन्दप्रतिबिम्बो विषयानन्दः, प्रतिबिम्बानन्दः, लेशानन्द इति च कथ्यते।
२. दुःखात्मकविषयानुभवकालीनसुखस्य वस्तुत आत्मस्वरूपसुखत्वेऽपि, विषयनिष्ठतया तज्जन्यत्वेन च तत्सुखस्य भानं भ्रमाद्भवति। यथा शुनः शुष्कास्थिखादनकाले स्वतालुजन्यरक्ते अस्थिजन्यत्वभ्रमस्तद्वत्।
किञ्च आनन्दोत्पत्तेर्विषयाधीनत्वे यत्किञ्चिद्विषयजन्यानन्दमनुभवतः पुंसो विषयान्तरे इच्छोत्पत्तिदशायामपि प्राचीनविषयानन्दोऽनुवर्तितुमर्हति; न तु तथास्त्यनुभवः। अस्मत्सिद्धान्ते तु विषयान्तरासक्त्या पुनरपि बुद्धिचाञ्चल्ये सति तस्यां चञ्चलबुद्धौ न स्वरूपानन्दप्रतिबिम्बो भातीति समाधानं ज्ञेयम्।
किञ्चान्यत्, यदि विषयादेवानन्दो नियमेन जायेत तदा प्रवासादागतपुत्रदर्शनजन्यानन्दः सदानुवर्तितुमर्हति ; न तु तथा भवति। तथा हि
कस्यचित् प्रियतरः पुत्रश्चिरप्रवासी कालान्तरे प्रत्यागमत्। तद्दर्शनक्षणे
जायमानः पितुरानन्दः चिरकालमविच्छिन्नतयानुवर्तितुमर्हति, आनन्दहेतोः
पुत्रस्य सदा सन्निहितत्वात्। न तु तथानुभूयते। सिद्धान्ते तु पुत्रदर्शनादितत्तद्विषयजन्यानन्दस्य चिरमननुवृत्तिरेवमुपपद्यते तत्तद्विषयलाभक्षणे बुद्धिर्निश्चलीभवति। तदा निश्चलायां बुद्धिवृत्तावात्मस्वरूपानन्दः प्रतिबिम्बितो
भवति। स एवानन्दोऽनुभूयते। ततो विषयान्तरेच्छया पुनरपि बुद्धेश्चाञ्चल्ये
सति तस्यां बुद्धौ स्वरूपानन्दप्रतिफलनस्य विच्छेदात्, पुरत एव सत्यपि प्राचीनविषये, नानन्दानुवृत्तिः। तस्मान्न विषयेऽस्त्यानन्दः। किञ्च यदि नियमेन
विषयाधीन एवानन्दो भवेत् तदा समाधौ योगानन्दो१ न प्रकाशेत। तथा
सुषुप्तावपि नानन्दभानं स्यात्। सुषुप्तिसमाध्योर्दृश्यरूपविषयसंबन्धस्याभावात्२।
तस्मान्न विषये आनन्दलेशोऽप्यस्ति। किन्त्वात्मस्वरूपानन्द एव सर्वात्मना सर्वत्रावभासते। "रसो वै सः, रसँ ह्येवायं लब्ध्वानन्दी भवति" (तै० ब्र० ७)
"एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" (बृ० ४।३।३२) इत्यादिश्रुतेः।
ग्रन्थकारटिप्पणी
१. चित्तैकाग्रतारूपयोगाभिव्यङ्ग्य आनन्दः।
२. सुषुप्तिदृष्टान्तस्तु सर्वजनप्रसिद्ध्यर्थम्।
हे शिष्य। निरतिशयानन्दस्वरूप एवात्मेति विषयसंबन्धाच्च स आनन्दोऽभिव्यज्यते इति जानीहि –
अदृश्यो दृश्यते राहुर्गृहीतेन यथेन्दुना।
तथानुभवमात्रात्मा दृश्येनात्मावलोक्यते॥ इति स्मृतेः।
अयमेव समीचीनः सिद्धान्तः। यद्यस्त्यत्र ते संशयो निर्व्यलीकमेव पृच्छ। पुनः सुस्फुटमेव त्वां बोधयेयमिति गुरुराह।