सामग्रीं त्यजन्तु

विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १२९ – आत्मन आनन्दरूपत्वे विषयसंबन्धादानन्दभानं नोचितमित्याक्षेपः

आवर्तः १२९ – आत्मन आनन्दरूपत्वे विषयसंबन्धादानन्दभानं नोचितमित्याक्षेपः

हे स्वामिन्। ममात्मा यदि नित्यनिरतिशयपरमानन्दरूप एव भवति, तदा विषयेन्द्रियसंबन्धाधीनतया आत्मन्यानन्दानुभवो नोपपद्येत। अनुभूयत एव तु विषयसंबन्धादात्मन्यानन्दः। तस्मान्नैवानन्दरूप आत्मा। किन्तु विषयसंबन्धादेवात्मन्यानन्दो जायते।