विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ६१ – साक्षिस्वरूपम्
मुखपृष्ठम् · ⬆ द्वितीयस्तरङ्गः · ← · →
आवर्तः ६१ – साक्षिस्वरूपम्¶
यदुक्तं – "जीवो रागद्वेषादिक्लेशविशिष्टः, तद्रहितञ्च ब्रह्म; तस्मात् तयोर्जीवब्रह्मणोरैक्यरूपो विषयो ग्रन्थस्य न सिद्ध्येत्" इति – यद्यपि तत्सत्यमेव, तथापि रागादिवियुक्तसाक्षिणो ब्रह्मणैक्यं युज्यत एव।
न च "कर्तृत्वभोक्तृत्वादिधर्मविशिष्टजीवादन्यः साक्षी वन्ध्यासूनुसमत्वान्नास्ति" इति वाच्यं, उपहितस्य साक्षित्वात्।
कर्तृत्वभोक्तृत्वादिरूपसंसारिविशेषणानां यो विशेष्यांशः स एव साक्षी इत्युच्यते। तादृशसाक्षिनिषेधे, संसारिणो विशेष्यांशापलापे कर्तृभोक्तृस्वरूपसंसारिनिषेध एव पर्यवस्येत्।
एकस्यैव चैतन्यस्य साक्षित्वे विवक्षितेऽन्तःकरणमुपाधिर्भवति। तस्यैव कर्तृत्वभोक्तृत्वविशिष्टजीवत्वे विवक्षितेऽन्तःकरणं विशेषणञ्च भवति। विशेषणेन युक्तं विशिष्टं, उपाधिना युक्तं उपहितं इति चोच्यते।
कार्यानन्वयित्वे१ सति विद्यमानत्वे सति व्यावर्तकः उपाधिः।
यथा न्यायमते कर्णगोलकान्तर्गत आकाशः श्रोत्रेन्द्रियमित्युच्यते। तत्र कर्णगोलकं श्रोत्रस्योपाधिः, यतः कर्णगोलकं स्वावच्छिन्नमाकाशं श्रोत्रेन्द्रियत्वेन बोधयित्वा स्वयं तेनासंबद्धं भवति। तस्मात् कर्णगोलकं श्रोत्रस्योपाधिः।
एवमन्तःकरणमपि स्वोपहितं चैतन्यं साक्षित्वेन बोधयित्वा स्वयं तेनासंबद्धं वर्तते। तस्मादन्तःकरणं साक्षिण उपाधिरिति, अन्तःकरणस्थचैतन्यमात्रं साक्षीति च सिद्ध्यति।
ग्रन्थकारटिप्पणी
१. यद्वस्तु स्वसमीपस्थं वस्त्वन्तरं व्यावर्तयति, अपि तु स्वयं तेन न संबध्यते, स उपाधिः इत्युच्यते।