सामग्रीं त्यजन्तु

विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ६० – अनेकसाक्षिणामेकेन ब्रह्मणैक्यासंभवः

आवर्तः ६० – अनेकसाक्षिणामेकेन ब्रह्मणैक्यासंभवः

एवं चान्तःकरणतद्धर्माणां केवलसाक्षिवेद्यत्वमते साक्षिण एकत्वाङ्गीकारो न युज्यत एव। पूर्वमेव प्रदर्शितरीत्या एकेन साक्षिणा यदा एकान्तःकरणस्थसुखदुःखादयो विषयी क्रियन्ते, तदा सर्वान्तःकरणगतसुखदुःखादेरपि विषयीकरणापत्तेरनिवार्यत्वात्। लोके तथाऽननुभवादनेके साक्षिण इत्येवाभ्युपगन्तव्यम्। साक्षिणोऽनेकत्वपक्षे यथा न दोषस्तथोक्तमेव प्राक्। तथा चानेकसाक्षिणामेकेन ब्रह्मणैक्यं न युज्यत एव।

ग्रन्थकारटिप्पणी